________________ [71 ] व्याख्या-तया-प्रियया सत्यभामया। आसक्तिवशात्-आसक्तिरनुरागस्तद्वशात् / इत्यम्-उक्त प्रकारेण / उदीरित:-कथितः / स:-कपिलः / सविस्मयं-साश्चर्यम्, आदेशं विनाऽपरवस्त्रपरिधानार्थमियं कथयिष्यति इत्यस्य पूर्वमननुसन्धानाद्विस्मयः, सस्मितम्-ईषद्धाससहितं यथा स्यात्तथा, स्मितपूर्वभाषी कपिल इति भावः / स्वस्यासाधारण्यं प्रकाशयितुं च स्मयः / तां-स्वप्रियाम् / आह स्म-कथितवान, किमित्यपेक्षायामाह / प्रिये-दयिते / मम वस्त्रे-मदीये वाससी / तेमिते-जला / न-नैव / ननु वर्षति मेघे तवेहागमनम्, जलाद् रक्षणसाधनं त्रापि तव पार्वे नाभूत, एवञ्च कथमेतत् सम्भवति, तबाह / मया-कर्ता / स्फुरत्प्रभावमन्त्रण-'फुरन् प्रकटः प्रभावो महिमा यस्य स तादृशेन मन्त्रेण करणेन, तत्सामर्थ्येनेत्यर्थः / एव-नूनम् / रक्षिते-गोपिते, मन्त्रप्रभावेण वस्रोपरिजलपतननिवारणानार्द्रतां प्राप्ते मम वस्त्रे, एवञ्च नान्यत्परिधानश्यावश्यक तेति भावः / यतोऽसाध्यमपि मन्त्रप्रभावात् सुसाध्यमिति भावः // 146 // ननु वस्त्रयोरनार्द्रताया कि मानमित्याह-न चेदितिन चेत् प्रतीतिस्तदिमे निभालय, प्रभाऽऽलयस्वाङ्गजितामराङ्गने। इतीरिता संस्पृशती तदंशुके, वपुश्च तस्याद्रमसावचिन्तयत् // 147 // व्याख्या-चेत्-यदि / न प्रतीति:-विश्वासः, स्खलु न, ते इति शेषः / तत्-तदा / प्रमाऽऽलयस्वाअजितामराङ्गाने-प्रभायाः कान्त्या आलयानि आस्पदानि यानि स्वस्य अङ्गान्यवयवानि तैः कृत्वा जिताः अधः ता अमराणामङ्गनाः स्त्रियः यया सा तत्सम्बोधने, देवाङ्गनापेक्षयाप्यधिकलावण्यशालिनि ? इमे-मे वस्त्रे / निमालय-पश्य, प्रतीत्यर्थमितिभावः। इति-इत्थम् / ईरिता-कथिता। असो-कपिलप्रिया। तस्यकपिलस्य / तदंशुके-ते अंशुके शरीरोपरिस्थे, अनावस्त्रे / आर्द्रम्-तेमितं,वपुश्च शरीरं पुनः / संस्पृशतीस्पर्श विदधती। अचिन्तयत-चिन्तितवती, अत्र यद्यपि वननिभालनार्थमेव प्रेरणम्, शरीरस्पर्शग्तु स्वबुद्धयैअत्यनेन तस्याः विलक्षणपरीक्षणयोग्यता सूचिता, अन्यथा वनस्पर्शमात्रेणैव कृतार्थता स्यादितिभावः // 14 // अथ तश्चिन्तनमेवाह-यदङ्गमितियदङ्गमाीकृतमम्बुबिन्दुभि-विहाय वासः कथमेतदिष्यते / न मन्त्रमाहात्म्यमजागरूककं, गुरूक्तमेवं कचनापि शम्यते // 148 // ' व्याख्या-यदिति-चिन्तन प्रस्तावे। वासः-वस्त्रं / विहाय-मुक्त्वा / अम्बुबिन्दुभिः-अम्बूनां मेघवृष्टजलानां बिन्दुभिः पृषद्भिः / अङ्गम्-अवयवः / आकृतम्-तेमितम्, एतत्-वस्त्रं विनैवाङ्गस्यार्दीभवनं / कथं-केन प्रकारेण / इप्यते-सम्भवति , न केनापि प्रकारेणेत्यर्थः, अङ्गस्य वनावृतत्वावलस्य