________________ [70 ] तत्तादृशं / गृहं-भवनं / समासाद्य-प्राप्य / क्षण-क्षणमात्रम् / विलम्ब्य-विश्रम्य / च-गृहाद्वहिरेव / वस्ने वस्त्रयुगम् / परिधाय-धारयित्वा, नग्नत्वप्रकाशनं माभूदितिच्छन्दसा व्याजेन स्वमहत्त्वप्रकटनेच्छया च / अविशत-प्राविवेश // 14 // अथ गृहप्रवेशानन्तरं सपत्नीकर्तव्यमाह-प्रियस्येतिप्रियस्य वासांसि धनेन तेमिता-न्यवश्यमस्य स्युरितीह तपिया। प्रविश्य सा वासगृहं पतिव्रता, पराणि तान्यानयति स्म भाविनी // 144 // व्याख्या-अस्य–सद्य एव आगतस्य / प्रियस्य-कान्तस्य / वासांसि-वस्राणि / घनेन-मेघेन / तेमितानि-जलवर्षणादाीकृतानि / अवश्यं-ध्रुवं / स्युः-भवेयुः। इति–इत्थं / माविनी-भाव आशयस्तद्वती, पतिसेवैव व्रतं पतिरेव व्रतं यस्या सा। पतिव्रता-पतिसेवापरायणा / तस्त्रिया-तस्य कपिलस्य प्रिया दयिता / सा-सत्यभामा। वासगृहम्-अन्तर्गृहं / प्रविश्य-गत्वा / पराणि-अन्यानि, अनार्द्राणि / तानिबासांसि / इह-कपिलपार्श्वे / आनयति स्म-आनीतवती, परिधानायेति शेषः / पतिव्रता कान्ता हि आदेश विनाऽपि पत्युः प्रयोजनं करोतीति भावः // 144 // अथ वस्त्रानयनप्रयोजनमाह-इमे इतिइमे स्ववस्त्रे विजहीहि वार्षुका - म्बुबाहनिर्मुक्तजलौघतेमिते / मदाहृते शारदचन्द्रसच्छवी, गृहाण धीमन् ! परिधेहि चायते // 145 // व्याख्या-धीमन !-विवेकिन !, अनेन समयोचितकार्यकारित्वं सूचितम् / इमे-सव शरीरोपरि दृश्यमाने। वार्षकाम्बुवाहनिर्मुक्तजलौघतेमिते-वर्षको वर्षगशीलः स एव वार्षको योऽम्बुवाहो जलधरस्तेन निर्मुक्तो यो जलानामोघः समूहस्तेन तेमिते आर्द्राभूते, वृष्टावागमनाजलार्द्र "तेमस्तेमौ सम्मुदने" इतिवयमार्दीभावे इत्यमरः, स्ववस्त्रे-स्वस्यात्मनो वस्ने वाससी / विजहोहि-मुञ्च, आर्द्रवनपरिधाननिषेधात्, तथाभूतस्य तव शय्यायामुपवेशनेऽन्यस्यापि आर्द्रत्वापत्तेः, शरीरे जाड्यकारकत्वाञ्चेति भावः / नन्वेवं नमता स्यात्तत्राह / मदाहते-मया आहृते आनीते। आयते-दी / शारदचन्द्रसच्छवी-शरदः अयं शारदो यश्चन्द्रस्तस्य सती या छविः कान्तिः सेव छविर्ययोस्ते तादृशे, धवले इत्यर्थः / गृहाण-स्वीकुरु / परिधेहिधारय / च-एवञ्च न तव नग्नता स्यात्, आर्द्रवस्त्रपरिधानजन्यहानिरपि न स्यादिति भावः // 145 // अथ कपिलोक्तिं प्रपञ्चयति-तयेत्यमितितयेत्थमासक्तिवशादुदीरितः, सविस्मयं सस्मितमाह स स्म ताम् / प्रिये ! न वस्त्रे मम तेमितेः स्फुरत्यभावमन्त्रेण मयैव रक्षिते // 146 //