________________ [ 69 ] व्याख्या-तदा-गमनसमये / स-कपिलः। विवोधमा-विबोधं ज्ञानं भजते इति स तादृशं ज्ञानिनं / गुरूम्-उपदेष्टारं / अन्तरेण-विनैव / यत्-यस्माद्धेतोः / दिगम्बरत्वं-दिश एवाम्बराणि यस्य स तद्भावरतत्त्वम् , नग्नत्वमितियावत , अथ च दिगम्बरसम्प्रदायानुसारिणो दिगम्बराः नग्नाटाः साधवः तेषांभावस्तत्त्वम् / प्रपेदिवान्-प्राप्तिवान् / तत्-तस्मात् / तेनैव-दिगम्बरत्वेनैव / कयाऽपि-अनिर्दिष्टाभिधानया। पतित्वशङ्कया- अनुलोमसकर त्वरूपपातित्यस्पचित्तोद्वेगकारिशया का / विगोपना-स्वसंगुप्तिः / निदर्शनीकृता-प्रकटीकृता, गुरुं विना गृहीतो वेषोऽनायैव कल्पते इति भावः / दिगम्बरत्वेन गुप्ताङ्गादिप्रकाशनवत्स्वपतितत्वप्रकाशनमपि कृतमिति ध्वनिः / अत्र हि वनसंगोपनेन तद्विरद्धपतितत्वप्रकाशनमिति विरुद्धसङ्घटनाद्विषमालङ्कारः // 14 // ननु दिगम्बरत्वं यदि दुष्टं तदा कथं महद्भिस्तदङ्गीकृतम्, न चेद् दुष्टं तदा कथं कपिलस्य दुष्टत्वम् इत्याह-दिगम्बरत्वमितिदिगम्बरत्वं परमीश्वरस्य वा, प्रकाशते नैव परस्य कस्यचित् / न लोकमालम्ब्य विभर्ति यःस्थिति,न यस्य तृष्णा कचिदप्यनारतम् // 142 // व्याख्या-या-जनः / लोवम्-जनम् / आलम्ब्य-आश्रित्य / स्थितिम्-अवस्थानं / न-नैव / विमर्चि-करोति लोकवसतीवासानाश्रयणाव / यस्य वा-महतः। कचिदपि-कुत्रापि, कस्मिंश्चिदपि वनितादिविषये / अनारतम्-अविश्रान्तं / तृष्णा-लिप्सा / न-नैवास्ति, तस्य इति यच्छब्दबलालभ्यते / परं-वेति पक्षान्तरे / ईश्वरस्य-ईशस्य,ऐश्वर्यवतः वीतरागस्य परमेश्वरत्येति पाठे तु जिनेन्द्रस्य वा / दिगम्बरत्वं-नग्नत्वं / प्रकाशते-शोभते / परस्य-अन्यस्य / कस्यचिद्-कस्यापि / न-नैव, यो हि-जिनकल्पी समर्थतयैकलविहारित्वेन साधुसमुदायमपेक्ष्य तन्मध्ये न तिष्ठति यो वा स्वशरीरेऽपि निःस्पृहः यश्च वा ईश्वरः अल किकैश्वर्ययुक्तः स दिगम्बरोऽपि चेल्लोकपूजित एव भवति, अन्यस्य तु वासनाप्रयोज्यविगीतचेष्टासम्भवादोषमूलं दिगम्बरवमित्यर्थः / एवञ्च कपिलस्य तादृशत्वाभावादिगम्बरत्वं दोषाय जातमिति भावः / / 142 / / अथ कपिलस्य गृहप्राप्तिमाह-अनावृतेतिअनावृतद्वारकपाटसंपुट, प्रियासमुद्दीपितदीपदीपकम् / गृह समासाद्य विलम्ब्य च क्षणं, द्विजः स वस्त्रे परिधाय चाविशत् // 143 // व्याख्या-स:-कपिलाख्यः। द्विजः-विप्रः / अनावृतद्वारकपाटसम्पुटम्-अनावृतं न पिहित प्रियप्रत्यागमनाशया द्वारस्य “कपाटोऽरिः कुवाटः" इति हैमोक्तेः कपाटयोररर्योः सम्पुटं यस्य तत्तादृशम् , स्था / प्रियासमदीपितदीप्रदीपर्क-प्रियया-दयितया समुद्दीपितः प्रकाशितः दीप्रः दीप्तिमान् दीपकः प्रदीपो यत्र