________________ [68] मिच्छरिव / घनाघन:-वर्षकाब्दः “वर्षकाब्दो घनाघनः" इत्यमरः / मारुत-समीरे / सर्पति-वहत्येव, एतेन संझावातसत्तासूचिता / अरम्-अत्यर्थ / प्रवर्षितुं-वर्षणं कर्तुं / प्रचक्रमे-आरब्धवान्, अत्र चले भणैरिति रूपकानुप्राणिता दिक्षुरिवेत्युत्प्रेक्षा // 138 // अथ तदवस्थायां कपिलकृत्यमाह-न सूचिभेद्येष्वितिन सूचिभेद्येषु तमस्सु संसरत् - स्ववेक्षिता कश्चन मां प्रयायिणम् / इति स्वचित्तेन विचिन्त्य वाससी, निधाय कक्षान्तरयं गृहं प्रति // 139 // __व्याख्या-सूचिभेद्येषु-सूचिना भेद्येषु अतिनिबिडेषु / तमस्सु-तिमिरेषु / संसरत्सु–प्रसरत्सु / प्रयायिणं-गन्तारं / मां-कपिलं मां / कश्चन-कोऽपि / न-नैव / अवेक्षिता-अवलोकयिता / इति–इत्थं / स्वचित्तेन-निजहृदयेन / विचिन्त्य-विचार्य / अयं-कपिलः / वाससी-वलयुगमूर्ध्ववस्त्रमधोवरूञ्चेत्यर्थः / कक्षस्य-बाहुमूलस्य / अन्त:-मध्ये / निधाय-कृत्वा 'बाहुमूले उभे कक्षौ' इत्यमरः / गृह-भवनं / प्रतिप्रचेलिवानिति परेणान्वयः // 139 // प्रियावियोगं न विसोढुमीश्वरो, बलाहके वर्षति स प्रचेलिवान् / समुन्नते वारिधरेऽथवा जनः, प्रियावियोग स्ववशः सहेत कः // 141 // व्याख्या प्रियावियोग-प्रियायाः दयितायाः वियोगं विरहम्, एक रात्रिं यावदपि इति शेषः / विसोढ-मर्षितुं / नेश्वर:-असमर्थः / स-कपिलः / बलाहक-जलधरे / वर्षति-वृष्टिं कुर्वत्यपि / प्रचेलिवान-प्रतस्थे / ननु विदेशरथाः नानारात्रि यावद्वियोगं सहन्ते, किमिति स एकरात्रिमपि न सोढा / सन्त्राह-अथवा-अथ पुनः / समुनते-वृद्धिंगते / वारिधरे-जलधरे सति / कः स्ववश:-स्वतन्त्रः कः / बन:-लोकः / प्रियावियोग-प्रियायाः दयितायाः वियोगं विरहं सहेत, न कोऽपीत्यर्थः, विदेशस्थस्तु परमन्त्रोऽतस्तस्य वियोगसहनं न विरुद्धयते इति भावः। यदाह कालिदासः मेघदूते “कः सन्नद्धे विरहविधुरां स्वय्युपेक्षेत जायाम्, न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः" इति / अत्र कपिलकृतप्रियावियोगाऽसइनरूपविशेषार्थस्य स्वक्शजनकृतप्रियावियोगाऽसहनरूपसामान्यार्थेन समर्थनाव सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासालङ्कारः // 14 // अथ ततः प्रचलितं कपिलं वर्णयति-दिगम्बरत्वमितिदिगम्बरत्वं स तदा प्रपेदिवान् , विबोधभाजं गुरुमन्तरेण यत् / विगोपना तत्पतितत्वशङ्कया, कयापि तेनैव निदर्शनीकृता // 14 //