________________ [67 ] - व्याख्या-यस्माद्-जलदागमाद् / भूरिश:-बहुशः बहुलानि / भुवनानि-जलानि / भवन्ति-“पयः कीलालममृतं, जीवनं मुवन वनम्" इत्यमरः / यतो-वृष्ट्या, भूरिजलसद्भावाद् / 'दुर्मिक्षमपिदुष्कालोऽपि / संक्षयं-विनाशम् / उपैति-प्राप्नोति, तत्र हेतुमाह-यदिति / यत्प्रसादनात्-यस्य जलदागमध्य प्रसादनाव प्रसादाद्धेतोः / धान्यानि-अन्नानि अत एव / धनानि-वित्तानि च, भवन्तीत्यनुषच्यते / जलदागमस्य प्रसादः पुष्कलवृष्टिः, तस्य कोपः स्वल्पवृष्टिः, वृष्ट्यभावो वाऽतिवृष्टिर्वा, तत्र धान्याभावो भवतीति भावः / स-तादृशः जगदुपकारकः / जलदागमः-वर्षर्तुः / किं-कुतः / नो प्रशस्यते-न चय॑ते, अपितु सर्षतः एव प्रशस्यते, यद्वा स जलदागमः किमिति प्रश्ने, न प्रशस्यते अपितु अवश्यं प्रशस्यते, सर्वजगदुचकारकत्वादिति भावः / अत्र जलदस्य लोकातिशयप्रभाववर्णनादुदात्ताऽलङ्कारः, तल्लक्षणं यथा-लोकाविशयसम्पत्तिवर्णनोदात्तमुच्यते इति / सम्पत्तिपदेन वित्तग्रहणस्यैव दुराग्रहे तु काव्यलिङ्गमेव बोध्यम् , प्रशस्वत्वे पूर्वचरणत्रयार्थस्य हेतुत्वोपगमात् / / 136 // (पश्चभिः कुलकम् ) .... , - अथैवं महता प्रबन्धेन वर्णितस्य वर्षाकालस्य प्रकृतोपयोगाय स्थलं प्रस्तौति-कदाचनेति - कदाचन प्रेक्षणकस्य वीक्षणं, सुरालये कापिल उत्तमद्धिभिः / समं विनिर्माय स यावदात्मना, क्षपामुखे मन्दिरमेतुमैहत // 137 // व्याख्या-स-पूर्वोक्तः,सत्यकिजामाता, कापिला-कपिल एव कापिलः, कदाचन-एकस्मिन् दिवसे। सुरालये-देवालये / उत्तमद्धिभिः-उत्तमा उत्कृष्टा ऋद्धयो येषां ते उत्तमर्द्धयः तैस्सम-सह / यद्वा उत्तमा उत्कृष्टाश्च ता ऋद्धयश्च उत्तमर्द्धयः दर्शनीयसम्पत्तयः ताभिस्सम सह / प्रेक्षणकस्य-नृत्याद, दर्शनीयस्य / वीक्षणम्-अवलोकन / विनिर्माय-कृत्वा / क्षपामुखे-प्रदोषे / आत्मना-स्वयं / यावद्-यदवधि / मन्दिरंस्वगृहम्प्रतिः / एतुम्-आगन्तुम् / ऐहत-ऐच्छत, तावदित्यप्रिमश्लोकेनान्वयः / त्रियामा झणदा झपा इसि 'प्रदोषो रजनीमुखम्' इति चामरः // 137 // . . . . .. अथ तदनन्तरजातवृत्तमाह-घनाघन इति घनाघनस्तावदरं प्रवर्षितुं,-प्रचक्रमे मारुत एव सर्पति / दिदृशुरन्तर्गतमस्य चेष्टितं, स्वयं द्विजातेरिव चञ्चलेक्षणैः // 138 // व्याख्या-तावत्-तदवधि / अस्य-कपिलाख्यस्य / द्विजातेः-द्विजन्मनः / अन्तर्गतं-रहस्यभूतमन्तरणम् , जन्मसिद्धमिति यावत् , न तु कृत्रिमं / चेष्टितम्-आचरणं / चचलेक्षण:-"वियुचञ्चला घंपला अपि" इत्यमरकोशोक्तेः, चनला विद्युत् एव ईक्षणानि तैः / स्वयम्-आत्मना / दिक्षुरिव अवलोकितु