________________ [66 ] नवश्वासौ अम्बुदस्तस्मिन् नूतनजलधरे। नम:-आकाशं / समाक्रम्य-आक्रम्य, व्याप्येत्यर्थः / स्थिते-स्थितिकते सति, अत्र समाक्रम्येति शब्देन अपराधिने सूर्याय दण्डोत्साहो मेघे सूचितः / अतएव धरोपतापनापराधत:धराया पृथिव्याः यदुपतापनम् तप्तकरणम् तदेवापराधोऽविनयस्तद्धेतोः, भीत इति शेषः / कापि-अलक्षितस्थाने / निलीय-आत्मानं गोपयित्वा / तस्थिवान्-अवसत् , अन्योऽपि हि अपराधी दण्डभयानिलीव विष्ठतीतिभावः / अत्र मेघान्तरितस्य सूर्यस्य निलयनस्यासम्बन्धेऽपि सम्बन्धोक्तरतिशयोक्तिः, तेन च धनघटानां नितरां निविडत्वं सूच्यते, येन सूर्यस्यात्यन्तमदर्शनम् जायते इति बोध्यम् , किश्चात्र समाक्रम्येत्यनेन धने विजिगीषुव्यवहारप्रतीतेः समासोक्तिः, साच धरोपतापनापराधत इति रूपकानुप्राणितातिशयोक्ता मिति सङ्करः // 134 // ग्रहाधिपे सागसि विश्वतापनात, कलानिधिर्यत्र करप्रसारणम् / अलं न कत्तुजलदेऽतिगर्जति, प्रकोपने स्वामिनि का विचारणा // 135 // व्याख्या-पत्र-वर्षौं / विश्वतापनात-विश्वस्य भुवनस्य तापनाद तप्तकरणात पीडनादिति यावत् / सागसि-सापराधे / प्रहाधिपे-पहाणां चन्द्रादिनक्षत्राणामधिपे ईशे सूर्ये, अति - अत्यन्तम् , कोपाधिक्यादिति भावः / गर्जति-ध्वनति, सकोपमाक्रोशति सतीति यावत् / जलदे-मेघे, प्रजानां जीवनदातृत्वाव प्रजापीडकं सूर्य प्रति जलदो गर्जती तिभावः / कलानिधिः-चन्द्रः, ग्रहाधिपप्रजा इत्यर्थः / करप्रसारणाम्कराणां किरणानां राजे देयषष्ठभागानाच हस्तानालेति वा प्रसारणां विस्तारणां निर्यातनामुद्यमनं वा / कर्त-- विधातुं / नालं-नैव समर्थः, अभूदितिशेषः / लोकेऽपिहि यदा राजा स्वयं राजान्तराक्रान्तो भवति, बदा प्रजाः करं न ददति, भीता वा जडतां प्राप्ताः करादि न सञ्चालयन्ति इति भावः / निबिडघनघटया गर्जन्त्या चन्द्रोऽप्यन्तर्हित इति भावः / नन्वतन्न युक्तम् राझो यद्भवतु तद्भजतु, प्रजाभिस्तु स्वकर्तव्यं कर्तव्यमेव तबाह-प्रकोपने-क्रोधशीले / स्वामिनि-प्रभौ सति / का विचारणा-को नयः, न काऽपीत्यर्थः / यथा तथा स्वरक्षणं विधेयम्, नतु तत्र नयत्यागोपादानविचारः प्राप्तावसर इत्यर्थः यद्वा, न तत्र मानापमानविचारः, सुस्थे स्वामिनि हि सर्व विचार्यते इति भावः / अत्र विश्वतापनस्यापराधत्वेन रूपणाव जलदगर्जनस्य तहेतुकत्वस्याऽसम्बन्धेऽपिसम्बन्धोक्तेः, कलानिधेः करप्रसारणाऽभावस्य गर्ननहेतुकत्वावगमायातिशयोक्तिकाव्यलिङ्गयोः सङ्करः, चन्द्रकृतकरप्रसारणाभावश्च प्रकोपने स्वामिनि विचारणाभावरूपेण सामान्येनार्थेन समर्थ्यते इत्यर्थान्तरन्यासः, एवञ्चातिशयोक्तथर्थान्तरन्यासयोः सङ्करः // 135 // भवन्ति यस्माद्भवनानि भूरिशो, यतोऽपि दुर्भिक्षमुपैति संक्षयम्। . धनानि धान्यानि च यत्प्रसादनात् , प्रशस्यते नो जलदागमः स किम् // 136 / /