________________ [ 65 ] व्याख्या-यत्रैव-यस्मिन् वर्षौवेव नान्यत्रेत्यर्थः / सुगन्धिताक्तेषु-सुगन्धिः इष्टगन्धः “इष्टगन्धः सुगन्धिश्च" इति हैमः, तस्य भावस्तत्ता, तया आक्तषु व्याप्तेषु, सुगन्धिष्विति यावद / सुवर्णकेतकीसमेषुशोभनो वर्णो येषां तेषु केतकीनां सुमेषु पुष्पेषु, यद्वा सुवर्णकेतकी इति प्रसिद्धलता तस्याः पुष्पेषु। लीनाउपविष्टा संसक्ता च, अत एव / स्थिरा-निश्चला। भ्रमरावली-भ्रमराणां षट्पदानामावली पंक्तिः / महेभ्यकारिताम-महेभ्यः धनाढ्यैः कारितां निर्मापितां / सवर्णशालोपहिताश्मगर्भताम्-सुवर्णस्य काञ्चनस्य या शाला सभागृहम् “वासः कुटी द्वयोः शाला सभा” इत्यमरः तत्रोपहितः खचितः यः अश्मगर्भ: हरिन्मणिस्तस्यभावस्तत्तां / व्यनक्ति-प्रकटयति, "मरकतमश्मगर्भो हरिन्मणिः” इत्यमरः, केतकीपुष्पलीना भ्रमरावली सुवर्णशालोपहिताश्मगर्भवत् शोभते इत्यर्थः / अत्रोत्प्रेक्षालङ्कारः // 132 // सुखस्थिता यत्र सुवर्णमालतीविकाशिपुष्पेषु षडहिसन्ततिः / प्रपाकिजम्बूफलविभ्रमाच्छुकै-विचुम्ब्य चञ्चभिरहो व्यमुच्यत // 133 // व्याख्या-यत्र वर्षौं, सुवर्णमालतीविकाशिपुष्पेषु-शोभनो वर्णो यस्याः सा, सुवर्णस्य काञ्चनस्य वर्णमिव पीतं वर्ण यस्याः सा, वा, चासौ मालती जातिश्चेति सुवर्णवर्णपुष्पवती मालती सुवर्णमालतीत्युच्यते "सुमना मालती जातिः" इत्यमरः / “जातिस्तु मालती" इति हैमः / तस्याः विकाशिपुष्पेषु-विकस्वराणि यानि पुष्पाणि तेषु / सुखस्थिता-सुखेन सुखपूर्वकं स्थितोपविष्टा, या / षडंह्रिसन्ततिः-षडंहीणां भ्रमराणा सन्ततिः श्रेणी भ्रमरपंक्ति:,सा। शुकैः-कीरैः। प्रपाकिजम्बूफलविभ्रमात्-प्रपाकीनि परिणतानि यानि जम्बूफलानि तेषां विभ्रमाद् भ्रान्तेः / चञ्चभिः-वोटिभिः / विचुम्ब्य-स्पृष्ट्वा / व्यमुच्यत-त्यक्ता, स्पर्शेन काठिन्यानुभवादफलभ्रान्तेयंपगमादिति भावः। चश्वस्पर्शेऽपि भ्रमणानां तादृशेषु पुष्पेषु स्थिरतैवेति मालतीपुष्याणां रसनिर्भरत्वं व्यज्यते, अत एव तल्लालसत्वाद् भ्रमराणां नोड्यनमिति बोध्यम् / अहो-अहो इत्याश्चर्ये, आश्चर्य वर्षौमहिमेत्यर्थः / अत्र हि भ्रमरे जम्बूफलभ्रान्तेश्शुकानां वर्णनाद् भ्रान्तिमदलङ्कारः / तल्लक्षणं / यथा-साम्यादतस्मिस्तबुद्धिर्भ्रान्तिमान् प्रतिभोत्थिता // 133 / / नभोमणियंत्र धरोपतापना-पराधतः कापि निलीय तस्थिवान् / परैरभेद्ये कमलोत्कराञ्चिते, नभः समाक्रम्य नवाम्बुदे स्थिते // 134 // व्याख्या-यत्र-वर्षौं / नभोमणिः-सूर्यः / परैः-अन्यैः किरणादिभिः, शत्रुभिः / अमेधे-अनमिभवनीये, एतेन घनानां महती घटा सूच्यते, तथा / कमलोत्कराञ्चिते-कमलायाः शोभायाः उत्करः आधिक्यं तेन अशिते युक्त यद्वा कमलोत्करः पद्मसमूहः तेन अनिते, वर्षतौ कमलानामुद्भवादिति भावः / नवादे