________________ [64 ] समुन्नमत्पीनपयोधरा रस, प्रपुष्णती केतकपत्ररोचना। प्रवर्तयन्ती सुमनोविकासन, वधूरिव प्रावृडुपागमत्तदा // 131 // व्याख्या-या--प्रावृड्। शिखण्डकान्-चूडास्थरोमसमूहान् पिच्छानि च “पिच्छं बह शिखण्डकः" इति हैमः / धारयत:--दधतः / पक्षिण:--विहगान् मयूरान् इत्यर्थः / अपि-अपिना अन्यान् जनानिति किमुवक्तव्यमित्यर्थः सूच्यते / धनगर्जिवादनात-घनानां मेघानां या गर्जयः गर्जितानि "स्तनितं गर्जितं गर्जि" रिति हैमः। तैः कृत्वा वादनाव केकारावप्रवर्तनात घनगर्जितेन केकारावप्रवर्तनपूर्वकमित्यर्थः / प्रनयन्ती.-ताण्डवं कारयन्ती, घनगर्जितानि श्रुत्वा मयूराः केकारवं कुर्वन्ति नृत्यन्ती चेतिभावः / वधूपक्षे घनसदृशगर्जनवादनाव सपिच्छपक्षिणः प्रनतंयन्ती. तथाविधशब्दकरणेन नववध्वः पक्षिणो नृत्यं कारयन्तीत्यर्थः / तथा स्वरूपसन्दर्शनत:--स्वरूपस्य सन्दर्शनं ज्ञापनं घनगर्जितवृष्ट्यादिभिः कृत्वा / ततः हंसान्--चक्राङ्गान् “हंसास्तु श्वेतगरुतश्चक्रांगामानसौकसः" इत्यमरः / अपि-पुनः / विदेशगान्--मानससरोवररूपविशिष्टदेशगमनान् / यद्वा देशादितः मानसं विदेशस्तत्र गमनान् इति यावत् / प्रसह्य-हठात् / प्रकुर्वती विदधती / वर्षागमे हंसाः मानससरोवरं यान्तीतिप्रसिद्धिः / वधूपक्षे-वधूः निजरूपदर्शनद्वारा हंसान आत्मनः विशिष्टदेशगान् विशिष्टस्थानगतीत् विदधाति, यद्वा विदेशो दूरदेशस्तत्र गमनान, वधूमवाप्यात्मानो दूरदेशमटन्त्यथार्जनाय, अथवा वधूप्राप्त्या मोहः सञ्जायते ततश्चात्मभावो दूरीभवतीति वधूः हंसान विदेशगान करोतीति युक्तम् / समुभमतपोनपयोधरा-समुन्नमन्तः वर्षिष्णवः पीनाः स्थूलाः विशालाः पयोधरा मेघाः यत्र सा तादृशी / वधूपक्षे समुन्नमन्तौ उच्चैर्भवन्तौ, एतेन नवयुवत्वं सूच्यते, तदैव स्तनवर्धनसम्भवात् / पीनौ स्थूलौ पयोधरौ स्तनौ यस्याः सा तादृशी / रसं--जलं.। प्रपुष्णती-वृष्ट्यादिना वर्धयन्ती / पक्षे रसं श्रृङ्गाररसं प्रपुष्णती विभावतयोत्पादयन्ती। केतकपत्ररोचना--केतकस्य क्रकचच्छदस्य 'केतकः क्रकचच्छदः' इति हैमः / पत्रेण रोचते शोभते इति सा तादृशी केतकपत्रशोभिनीत्यर्थः / वर्षाकाले केतकपत्राणामुद्रमाव इति भावः / वधू पक्षे केतकपत्राकारपत्रावलिराजिता / सुमनोविकासनम्-सुमनसां पुष्पाणां विकासनमुद्बोधनम् / पक्षे सुमनसां सहृदयानां विकासनं रागोद्भवं / प्रवर्तयन्ती--कुर्वन्ती, यत्तदोर्नित्यसम्बन्धाव या इति यच्छब्दबलोपलब्धा सा / प्रावृड्-वर्षर्तुः। वधूरिव--योषिदिव / तदा-रममाणयोः तयोः कपिलसत्यभामयोः सतोः / उपागमत्-प्रादुर्बभूव / अत्र श्लेषानुप्राणितोपमाऽलङ्कारः // 131 // अथ पञ्चभिः पुनर्वर्षर्तुमेव वर्णयति-सुगन्धिताक्तेषु इतिसुगन्धिताक्तेषु सुवर्णकेतकी, सुमेषु लीना भ्रमरावली स्थिरा। . व्यनक्ति यत्रैव महेभ्यकारितां, सुवर्णशालोपहिताश्मगर्भताम् // 132 //