________________ [ 63 ] अथ कपिलस्य लोकप्रियताया धनप्राप्तिमाह-सकोऽपीतिस कोऽपि नैवास्ति न येन काञ्चनं, व्यतारि तस्मै कपिलाय मानतः। जनः समग्रो यदि वा बहिर्मुखः, प्रवाहमालम्ब्य बलात् प्रवर्तते // 128 // व्याख्या-स कोऽपि-एकोऽपि / जनः-लोकः / नैव अस्ति-न हि वर्तते / येन-लोकेन / तस्मैप्रसिद्धाय / कपिलाय काञ्चनं-हिरण्यं उपलक्षणत्वादन्यदपि वस्तु / मानतो न व्यतारि-न दत्तम् ,अपितु सर्वैरेव दत्तमित्यर्थः / नन्वेतदसमञ्जसम् , नहि सर्व एव केनचिदेकेनोपकृतो भवति, न च तथाभूतोऽपि ददात्येवेति नियमस्तत्राह / यदि वा-यतः / बहिर्मुखः-परानुकरणकर्ता एतेनोपकृतैरनुपकृतैश्च वा दाने बीजमुक्तम् / समग्रः-सर्व एव / जनः-लोकः, अतः इति शेषः / प्रवाह-गतानुगतिकतां धारां वा। आलम्ब्यआश्रित्य / बलाद्-अनिच्छया, अपि / प्रवर्तते-आरभते गडरिकाप्रवाहवदिति भावः / एवञ्च सर्वेषामेव दानं न विरुद्धयते इत्याशयः / अत्र कपिलोद्देश्यकजनकृतदानस्य विशेषार्थस्य प्रवाहालम्बनेन जनप्रवृत्तिरूपेण सामान्येनार्थेन समर्थनादर्थान्तरन्यासोऽलङ्कारः / किश्चात्र प्रवाहादिसामान्यविशेषणमहिम्ना जनप्रवृत्ती जलव्यवहारसमारोपाव समासोक्तिरलङ्कारः / एवन द्वयोरङ्गाङ्गिभावः सङ्करः // 128 // __ अथ तस्याढ्यत्वं वर्णयति-अशेषेतिअशेषशास्त्रागमतत्त्वदर्शिनां, निदर्शनं प्राकपिलः स्वतोऽभवत् / अनन्तरं सत्यकिनन्दनाश्रितो, धनेश्वराणां प्रथम निदर्शनम् // 129 // व्याख्या-कपिल:-प्रसिद्धः सः / प्राक्-विवाहात्पूर्व / स्वतः-स्वयम् / अशेषशास्त्रागमतत्त्वदर्शिनाम्-अशेषाणि समप्राणि यानि शास्त्राणि षट्दर्शनशास्त्राणि तान्येवागमास्तेषां यद्वा शास्त्राणि आगमाश्च स्वस्वाभ्युपगतसिद्धान्तप्रन्थाश्च तेषां तत्त्वं गूढरहस्यं पश्यन्तीत्येवंशीलाः तेषां विद्वत्तल्लजानां / निदर्शनम्दृष्टान्तः / अभवत्-आसीत् / कः सर्वशास्त्रागमतत्त्वदर्शी इति जिज्ञासायां सर्वैरेव विद्वभिः स एव निर्दिश्यते इत्यर्थः। अनन्तरं-विवाहानन्तरम् / सत्यकिनन्दनाश्रितः-सत्यकेः नन्दना पुत्री तयाऽऽश्रितः सन् / धनेश्वराणाम्-इभ्यानां / निदर्शनं-दृष्टान्तः, अभवदित्यनुषज्यते, अयमेव सर्वतोऽधिको धनिक इत्यर्थः / एवञ्चैतेन विद्वानिव धनवान्, धनवानिव च विद्वान् कपिल इति अन्योन्यालङ्कारो व्यज्यते / / 129 // अथ विशेष विवक्षुस्तदङ्गभूतं प्रावृडवतारं प्रथममाह युग्मेन-शिखण्डकानितिशिखण्डकान धारयतोऽपि पक्षिणः, अनर्तयन्ती घनगर्जिवादनात् / प्रसह्य हंसानपि या विदेशगान, स्वरूपसन्दर्शनतः प्रकुर्वती // 130 //