________________ [62 ] निशीथिनीनाथ:-निशीथिन्याः रजन्याः नाथः पतिः चन्द्रः, स इव / स्वम्-आत्मानम् / कलत्रवन्तंदारवन्तम् / अमस्त-मन्यतेस्म / तयैवेत्यत्रैवकारेणान्यस्त्रीनिषेधः कृतः, अन्यस्यास्तादृशविलक्षणभक्तिप्रतिप्रत्त्यभावादिति भावः / अत्र मालोपमाऽलङ्कारः // 125 / / . अथ तस्य सौख्यं वर्णयति-अजीगमदितिअजीगमत् कांश्चन वत्सरानयं, तुषारकालोदितवासरानिव / समं तया वैषयिकं सुखं भजन, क नानुरूपं कृतपुण्यसम्पदाम् // 126 // व्याख्या-अयं-कपिलः / तुषारकालोदितवासरानिव-तुषारस्य शीतस्य "तुषारः शीतलः शीतः" इत्यमरः / काले समये हेमन्तौ उदिता उदयंगता ये वासराः दिवसास्तानिव, इतरमासापेक्षया हिमर्तुवासरस्य लघुत्वादिति भावः / कांश्चन-अनेकान् / वत्सरान्-हायनान् / तया सत्यभामया / समं-सह वैषयिकं सुखं-पश्चेन्द्रियसौख्यम् / भजन्-उपमुञ्जन् / अजीगमत-गमयति स्म / ननु कुतस्तस्यैतादृशसौख्यलाभ इत्याह / कृतपुण्यसम्पदाम्-कृता सञ्चिता पुण्यस्य सम्पद् यैस्ते तादृशानां / क-कुत्र / अनुरूपम्आनुकूल्यं, भावप्रधाननिर्देशोऽयम् / न-नहि, भवतीति शेषः, सर्वत्रैव भवतीत्यर्थः / अत्र कपिलसौख्यभजनरूपविशेषार्थस्य कृतपुण्यसम्पदाम् आनुकूल्यरूपसामान्यार्थेन समर्थनादर्थान्तरन्यासालङ्कारः // 126 // अथ कपिलस्य लोकप्रियत्वमाह-तनूभुवामिति - तनूभुवां पाठनिमित्तकारणात्, ग्रहातिचारादिविवोधनादपि / नवीनजामातृतया च सत्यके,-रपूजि भक्त्या कपिलो न कैर्जनैः // 127 // __ व्याख्या-तनूभुवां-तनयानां / पाठनिमित्तकारणात्-पाठ एव निमित्तकारणं ततः, अध्यापनहेतोः, सर्वो हि स्वपुत्रशिक्षकं बहुमनुते इति भावः / ग्रहातिचारादिविबोधनादपि-पहागां नक्षत्राणां यः अतिचारादि:-अतिक्रम्य चरणादिः वक्रतादिः,एतेन तत्कृतशुभाशुभफलमुपलक्ष्यते, तस्य विबोधनाज्ज्ञापनादपि / एतेन गणनापुरस्सरं यथार्थफलवक्तृत्वं सूच्यते। अद्यत्वेऽपि हि दैवज्ञाः समाजसत्कारभाजः इति भावः / सत्यके:-प्रसिद्धाध्यापकस्य / नवीनजामातृतया-नवीना नूतना या जामातृता तया च, नवोनजामातुः श्वसुरपुरे बहुमानः प्रसिद्ध इति भावः / कपिल:-तदाख्योऽयं / कै:-किं नामधेयैः / जनैः-लोकैः / भक्त्या-सानुरागं / न अपूजि-न सत्कृतः ? अपितु सर्वैरेवाऽपूजीत्यर्थः / एकोऽपि हि अत्रोक्तः लोकोपकारकत्वादिगुणः लोकसत्कारायालम् किमु यत्रतत्त्रयमिति भावः // 127 / /