________________ व्याख्या-अध्यापक:-शिक्षकः, स सत्यकिः / मनोहारि-समयोपयुक्तत्वान्मनोज्ञम् / आयतौउत्तरकाले, कन्यायाः सुखजनकत्वसम्बन्धात् / हितं-पथ्यञ्च / जम्बुकावच:- जम्बुकायाः स्वप्रियाया वचः वाक्यमिति / विचार्य-विमृश्य / तां-निजां / कन्यकां--सुतां सत्यभामाभिधां / कपिलेन-तन्नामश्रुतेन / कोविदवर्णनातिगात्-कोविदाः बुधाः "सुधीः कोविदो बुधः" इत्यमरः, तेषां या वर्णना प्रशंसनम् तामतिगच्छतीति तस्माव, कविनापि वर्णयितुमशक्यात् / महोत्सवात्-विलक्षणमहोत्सवपूर्वकम् / व्यवाहयत्पयेणाययत् // 12 // अथ जामातृसुतयोर्निवासाय गृहदानमाह-निकेतनमितिनिकेतनं च प्रददौ मनोरम, महासरोवत् कमलोपशोभितम् / सुधाभिरालीढमनुष्णभानुवत् , विशालतालिङ्गितमन्तरिक्षवत् // 124 // ___ व्याख्या-महासरोवत्-महाकायसरोवर इव / कमलोपशोभितम्-कमलया लक्ष्म्या, उपशोभितं विराजितम्, सम्पत्समन्वितमिति यावत् , सरःपक्षे-कमलैः उपशोभितम् / अनुष्णभानुवत--न उष्णा भानवः करा यस्य स तादृशश्चन्द्रस्तद्वत् / सुधाभि:--भित्यादिरञ्जनकारिश्वेतलेपनद्रव्यैः। 'सुधा लेपोऽमृत' मित्यमरः / आलीढम्-लिप्तम् , अत एव सुधया लिप्तं धवलीकृतं सौधमिति व्युत्पत्तिसिद्धा प्रासादस्य सौधसंज्ञा / चन्द्रपक्षे सुधाभिः-अमृतैः आलीढम्-व्याप्तम् चन्द्रस्यामृतमयत्वादिति / अन्तरिक्षवत्-आकाशवत् / विशालताऽऽलिङ्गितम्-विशालतया दैयेणात्युच्छ्रायतया चालिङ्गितमन्वितम्। आकाशपक्षे-विशालता महत्परिमाणं तेनालिङ्गितम् यद्वा विगतः शाला वृक्षा यतस्तस्य भावस्तत्ता तया। “अनोकहः कुरः शालः इत्यमरः / वृक्षाणां महीरुहत्वादाकाशे तदभावादिति भावः / अत एव मनोरम--हृद्यम् एवंविधं किमित्याशंकायां विशेष्यपदमाह / निकेतनंभवनम् “गृहं गेहोदवसितम् वेश्म सम निकेतनमित्य"मरः / च-चः-पूर्वोक्तकन्यादानसमुचायकः / प्रददौप्रदत्तवान् (निवासाय) : यौतके वेति शेषः / अत्र श्लेषानुप्राणितोपमाऽलङ्कारः स्पष्टः // 124 / / अथ विवाहानन्तरं कपिलचित्तवृत्तिमाह-कलत्रवन्तमितिकलत्रवन्तं स्वममस्त स द्विज-स्तयैव भक्तिप्रतिपत्तिशीलया / अरुन्धतीजानिरिवाक्षमालया, निशीथिनीनाथ इव त्रियामया // 125 // व्याख्या-स द्विजः-कपिलाख्यः विप्रः / भक्तिप्रतिपत्तिशीलया-भक्तेः पूज्यगतानुरागस्य या प्रतिपत्तिः स्वीकारः तच्छीलं यस्या सा तादृशी तया, भक्तिमत्या, यद्वा भक्तिश्च प्रतिपत्तिनिश्च ते भक्तिप्रतिप्रत्ती तच्छीलया भक्तिज्ञानयुक्तया / तयैव-सत्यभामयैव / अक्षमालया-तदाख्यया स्त्रिया / अरुन्धतीजानि:वशिष्ठ इव “वशिष्ठोऽरुन्धतीजानिरक्षमाला त्वरुन्धती" इति हैमः। त्रियामया-रजन्या तत्संझया वध्वा /