________________ [6.] अथ तदुक्तिं प्रपञ्चयन् प्रस्तावाङ्गमूतां कन्यां वर्णयति-अपत्यवत्तेतिअपत्यवत्ता ननु सत्यभामया, स्वचारुतानिर्जितसत्यभामया / तनूजया नौ विजयाङ्गभूतया, स्मरस्य सुस्त्रैणललामभूतया // 121 // व्याख्या-स्वचास्तानिर्जितसत्यभामया-स्वस्य निजस्य या चारुता मनोहरता सुन्दरता तया कृत्वा निर्जिताऽधःकृता सत्यभामा तन्नाम्नी सौन्दर्येण प्रसिद्धा कृष्णप्रिया यया सा तादृशी तया / अत एवं सुस्त्रैणललामभृतया-सु उत्तमं यत् स्त्रैणं स्त्रीणां समूहः तस्य ललामभूतया शिरोभूषणरूपया, रमणीसमूहशिरोमणितुल्यया। अतः स्मरस्य-कामस्य / विजयाङ्गभूतया-विजयम्य जयस्य अङ्गभूता प्रधानसहकारिणी तया तादृश्या / सत्यभामया-तन्नाम्न्या / तनूजया-पुत्र्या / नौ-आवयोः / अपत्यवत्ता-सन्ततिमत्ता / ननुइति निश्चये, अपत्यान्तरस्याभावादिति भावः // 12 / / __ अथ स्वाभीष्टं वक्ति-विवाहयोग्येतिविवाहयोग्या यदि सा प्रदास्यते, वराय कस्मैचन तत् प्रदीयताम् / द्विजाय चास्मै गुणराजिराजिने, सुभर्तृदत्ता हि सुता न दुःखभाक् // 122 // व्याख्या-विवाहयोग्या-षोडशवार्षिकी / सा-कन्या / यदि-चेत् / कस्मैचन-अनिर्दिष्टनाग्ने / वराय-वरणयोग्याय / प्रदास्यते-वितरिष्यते / चेत्-तर्हि / अस्मै अत्रैव वर्तमानाय / गुणराजिराजिनेगुणानां राजिः श्रेणि: तया राजते शोभते इत्येवंशीलस्तस्मै, एतेन कन्यादानस्य तद्ग्रहणस्य च योग्यता सूचिता। ननु न हीनजातौ कन्यां दद्यादित्युक्तेः अस्य जात्यन्तरत्वे कथं देयेत्याह / द्विजाय ब्राह्मणाय / एवञ्च न जात्यन्तरतापीतिभावः / प्रदीयताम्-दीयताम् / ननु कुतस्तवायमाग्रह इत्याह-हि-यतः / सुभदत्ताशोभनो भर्ता सुभ" तस्मै दत्ता समर्पिता / सुता-कन्या / दुःखमाक्-दुखं भजते इति सा तादृशी क्लेशभागिनी / न-न खलु भवतीतिशेषः / कन्या दुःखं मा आपदित्येव पित्रोद्रष्टव्यम् / तच्च कपिलविषये गुणान् दृष्ट्वा सम्भवतीत्यतस्तस्मै देयेति भावः। कपिलोद्देश्यककन्यादानरूपविशेषक्रियायाः सुभत्रै कन्यादाने दुःखानुभवाभावरूपसामान्याऽर्थेन समर्थनादर्थान्तरन्यासालङ्कारः // 122 / / अथ तदनन्तरं सत्यकिकृत्यमाह-विचार्येतिविचार्य चाध्यापक एव जम्बुका-वचो मनोहारि तदायतो हितम् / व्यवाहयत् तां कपिलेन कन्यकां, महोत्सवात् कोविदवर्णनातिगात् // 123 //