________________ [59 ] व्याख्या-बुधः-विद्वान् कपिलः / तच्छात्रसमुच्चयं-तस्य सत्यकेश्छात्राणां शिष्याणां समुच्चयं समुदयं / कथश्चित केनापि विलक्षणेन प्रकारेण / समुद्य-सम्यगुदित्वा, विशदं प्रतिपाद्येत्यर्थः / “वक्तुरेव हि तज्जाड्यं यत्र श्रोता न बुध्यत" इत्युक्तेरिति भावः / तथा-तेन प्रकारेण / अध्यजीगपत-अध्यापयामास / यथा-येन / स-छात्रसमुदयः / दुर्बोधपदार्थबोधनात्-बोद्धुमशक्यो दुर्बोधः यः पदार्थस्तस्य बोधनादवगमाद्धेतोः / पुरातनस्य-प्राचीनस्य / कवेः-विदुषः सत्यकेः / न स्मरतिस्म-स्मरणं न करोतिस्म। नवीने स्वेष्टाऽलाभो हि अतीतस्मरणाय कल्पते इति भावः // 118 // अथ सत्यकेः कन्यायाः कपिलेन विवाहस्य युग्मेन भूमिकामारचयति--स्वरूपैति - स्वरूपसन्तर्जितपुष्पसायकं, त्रयीसमस्तार्थविशेषवेदिनम् / / प्रवादविद्यापरिभूतगीष्पति, सुवृत्तहेतुं कपिल विलोक्य तम् // 119 // कदाचिदध्यापकजीवितेश्वरा, प्रतीतिमाता किल जम्बुकाऽऽख्यया / रहः पतिं प्राह विचारचातुरी, विरिञ्चिकन्याकमनीयकान्तिभृत् // 120 // . व्याख्या-स्वरूपसन्तर्जितपुष्पसायक-स्वरूपेण निजाकृत्या सन्तर्जितोऽधरीकृतः पुष्पसायकः कामः येन स तम् , कामादप्यधिकसुन्दरम् , अनेन रूपसम्पत्तिरुक्ता, स्त्रीणां वरमात्रापेक्षित्वात् कुलचर्चामकृत्वैव तस्य विद्यासम्पत्तिमाह-त्रयीसमस्तार्थविशेषवेदिनम्-त्रय्याः वेदानां "श्रुतिः स्त्री वेद आम्नायत्रयी" इत्यमरः / समस्तानामर्थविशेषाणां गूढरहस्यानां वेदिनं ज्ञातारं / तथा प्रवादविद्यापरिभृतगीपति-प्रवादस्य शास्त्रार्थस्य या विद्या कला तया परिभूतः पराजितः गीष्पतिवृहस्पतिर्येन स तं तादृशम् / सुवृत्तहेतुम्-सुवृत्तः सवृत्तः हेतुर्निमित्तं यस्य स तं तादृशम् , सद्वृत्तहेतुशीलविनयादिसम्पन्न, यद्वा कुलमप्याह-शोभनौ वृत्तं चरितं हेतुर्निमित्तं जनकादि चेत्येतौ यस्य स तं कुलीनं शीलवन्तञ्च / तं कपिलं / विलोक्य-वीक्ष्य / एतेन वरगुणा: उक्ताः / विचारचातरी-चतुरैव चातुरी, विचारे चातुरी सद्विचारवती। विरिश्चिकन्याकमनीयकान्तिभृवविरिश्चेब्रह्मणः 'विरिश्चिः कमलासनः स्रष्टा प्रजापतिरि'त्यमरः, या कन्या दुहिता सरस्वतो तद्वत्कमनीयां मनोहरां कान्ति बिभर्तीति सा सरस्वतीव कान्तिमती; यद्वा विचारचातुर्या विवेकपटुतायाः सरस्वतीतुल्येति समस्तपदार्थः / जम्बुकाऽऽव्यया-जम्बुका इति नाना / प्रतोति-प्रसिद्धिम् / आप्ता-प्राप्ता, जम्बुकेति प्रसिद्धा / अध्यापकजीवितेश्वराः-अध्यापकस्य सत्यकेः जीवितेश्वरा दयिता / कदाचिद्-उपयुक्तसमये / रह:एकान्ते / पति-प्रियं / प्राह-जगाद / किल // 119 / / 120 / /