________________ [ 58 ] अथ विशेषजिज्ञासया सत्यकेस्स्वतस्तत्परीक्षणमाह-अपृच्छदितिअपृच्छदध्यापक एव तं चिरान्, मनःस्थितान कांश्चन शास्त्रसंशयान् / बिभेद तान् सोऽपि नदीप्रवाहवत्, प्रबद्धमूलानपि मेदिनीरुहान् // 116 // व्याख्या-अध्यापक:-शिक्षक', स सत्यकिरेव / चिरात्-दीर्घकालात , स्वतः समाधानाऽस्फुरणाव समाधातुश्च तादृशस्यालम्भादिति भावः / एतेन प्रश्नस्यातिगहनत्वं सूचितम् / अत एव मनःस्थितान्-मनसि हृदये स्थितान् / कांश्चन-अनेकान् / शास्त्रसंशयान्-शास्त्रे शास्त्रविषये संशयान् सन्देहान् / तम् अपृच्छन्कपिलं पृच्छति स्म / स-कपिलः / तान्-पृष्टान् संशयान् / पुनः, प्रबद्धमूलान्-प्रबद्धं निम्नमूलतया दृढं मूलं बुनः “मूलं बुधोऽघ्रिनामक” इत्यमरः, येषां तान् तादृशान् / अपि-किं पुनरन्यान् / महीरदान्-वृक्षान् / नदीप्रवाहवत्-नद्याः प्रवाहः धारावेगस्तद्वद्, एतयोपमया समाधानस्य तत्कृतानायाससाध्यत्वं सूचितम् / बिभेद-दूरीचकार, सयुक्तिकनिश्चयात्मकोत्तरदानादिति भावः / एतेन तत्पाण्डित्यस्य पराकाष्ठा दर्शिता / अत्रोपमालङ्कारः स्पष्टः // 11 // अथ तदनन्तरं सत्यकेः सत्कारप्रकारमाह-तमभ्यषिञ्चदितितमभ्यषिञ्चत् स्वपदेऽथ सत्यकि-श्चमत्कृतश्चेतसि तस्य संविदा / न किं सपर्या रचयन्ति धीमतां, महानुभावा हि गुणानुसारतः // 117 // ___व्याख्या-अथ-अनन्तरम् / तस्य-कपिलस्य / संविदा-संज्ञानेन / चेतसि हुदये / चमत्कृत:विस्मितः / सत्यकि:-तदभिधानाध्यापकः / तं-कपिलं / स्वपदे-स्वस्य निजस्य पदे स्थाने, शिक्षकस्थाने / अभ्यषिश्चत-नियुक्तवान् / नन्वेतदतिसाहसम् , स्वस्थानपरित्यागस्यासुकरत्वात्तत्राह / हि यतः / महानुभावा:उदाराशयाः जनाः / गुणानुसारत:-गुणानुरोधेन / धीमतां-विदुषां / किं-किं प्रकारां / सपयों-सत्कृति / न रचयन्ति-न कुर्वन्ति, अपितु सर्वप्रकारामेव सर्वस्वाद्यर्पणादिसहितां सपर्या कुर्वन्तीत्यर्थः / नहि गुणिनः गुणवत्सु कुण्ठितमतय इति भावः / अत्र सत्यकिकृतस्वपददानरूपविशेषार्थस्य महानुभावकर्तृकसर्वप्रकारसपर्याकरणरूपसामान्यार्थेन समर्थना सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः // 117 / / अथ कपिलस्याध्यापनवैचक्षण्यमाह-समुद्येतिसमुद्य तच्छात्रसमुच्चयं बुधस्तथो कथञ्चित् कपिलोऽध्यजीगपत् / यथा.स दुर्बोधपदार्थबोधनात् , पुरातनस्य स्मरति स्म नो कवेः // 118 //