________________ [57 ] यथार्थ / न वितन्वते १-न कुर्वन्ति, रचयन्ति ? अपितु सर्वमेव यथार्थ कुर्वन्ति / यद्वा किं तथ्यं यथार्थमातिथ्यं न कुर्वन्ति ? अपि तु यद्यद्यथार्थमातिथ्यं तत्सर्व कुर्वन्त्येवेतिभावः / न हि तत्र तादृशावस्थायां स्वयं वा अन्येन वेति विचारावसर इति भावः / अत्र सत्यकिकृतातिथ्यस्य विशेषस्य आतिथेयकृतसर्वयथार्थाऽतिथ्यकरणरूपसामान्येनार्थेन समर्थनात्सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः // 11 // ___ अथ सत्यकेः कपिलेन सह विशेषपरिचयमाह-स यावदितिस यावदध्यापकमौलिशेखरः, प्रवर्तते प्रष्टुमिमं द्विजब्रुवम् / अये चतुर्वर्गफलोपपादके, श्रमः क शास्त्रे तव पण्डितेति तम् // 114 // व्याख्या-अध्यापकमौलिशेखरः-अध्यापकानां शिक्षकाणां मौलीनां मस्तकानां शिरसां शेखरः आपीडः इव / सः-अध्यापकशिरोमणिः सत्यकिः / यावत-यदवधि / अये-इति कोमलामन्त्रणे / पण्डित !सदसद्विवेकिन् ! चतुर्वर्गफलोपपादके-चतुर्णा धर्मार्थकाममोक्षाणां वर्गः समूहः तदेव फलं परिणाम: तस्योपपादके साधके चतुर्वर्गफलाधायके / क-कस्मिन् / शास्त्रे। तव-ते / श्रमो-व्यवसायः / इति-इत्थं / तं-समागतमतिथिम् / द्विजवम्-जातिमात्रजीविनम्, “जातिमात्रजीवी द्विजब्रुव" इति हैमः / प्रष्टुम्-प्रश्न कर्तुम् / प्रवर्तते-उपक्राम्यति, तावदित्यप्रिमश्लोकेनान्वयः // 114 // स्वत एव स कपिलः स्वपरिचयमदादित्याह-स एवेतिस एव तावत् पठतामपृच्छता-मपि व्यभैत्सीद्विषमार्थसंशयम् / सरस्वती वा यदि वा हरिप्रिया, तिरोहिता तिष्ठति किं मनागपि // 115 // व्याख्या-तावत्-तदवधि / स-कपिल एव / अपृच्छतामपि–प्रश्नमकुर्वतामपि / पठताम्अधीयानानां छात्राणां / विषमार्थसंशयम्-विषमः गहनः दुरुत्तरः दुर्बोधश्च यः अर्थस्य विषयस्य संशयः यद्वा विषमस्यातिगूढस्यार्थस्य संशयः सन्देहः, तं / व्यभत्सीत-साधुसमाधायापाकरोत् / एतेन तस्य प्रकाण्डपाण्डित्यं सूचितम् / ननु "पृच्छन्नपि हि मेधावी जडवल्लोक आचरेदि" त्युक्तरपृच्छतोऽपि प्रत्युत्तरे न्यूनतैवेति,तत्राह-सरस्वतीति / सरस्वती-श्रुतदेवी, वाकारोऽनास्थायाम् / यदि वा-अथवा / हरिप्रिया-हरेः विष्णोः प्रिया दयिता लक्ष्मीः / मनागपि-ईषदपि / तिरोहिता-अन्तर्भूता, गुप्ता / तिष्ठति किम्-नैव तिष्ठतीत्यर्थः / नहि विद्वांसोऽवसम्मतिक्रामन्ति, सरस्वती वा न समये मूकत्वायेतिभावः / एवञ्च सरस्वतीप्रयुक्तैव तस्य वाचालता, न स्वत इति तस्य न अपृष्टस्यापि प्रत्युत्तरे लाघवमिति गूढाशयः / अत्र कपिलकृतप्रत्युत्तरस्य सरस्वत्या अतिरोधानरूपेणार्थेन समर्थनादर्थान्तरन्यासः // 115 //