________________ [ 56 ] व्याख्या-जलराशिवत-जलराशिः समुद्रः “आकरो मकराद्रनाजलान्निधिधिराशयः” इति हैमः / तद्वत् जडै:-मूर्खः / अलब्धमध्यं-न लब्धं प्राप्तं प्राप्यं वा मध्यं मध्यभागो यस्य स तादृशस्तम् यथा जलनिवेमध्यमगाधत्वान्न प्राप्नोति तथा दुर्बोधत्वाज्जडैरप्राप्यमित्यर्थः / सरस्वतीसन्ततिशालिभि:-सरस्वत्याः शारदायाः वाण्याश्च सन्ततिः परम्परा तेन शालन्ते शोभन्ते इत्येवं शीलाः सरस्वतीसन्ततिशालिनस्तैः विद्वद्भिः व्याख्याभिश्च / वृतम्-समन्वितम् / पठच्छात्रकुलैः-पठतामधीयानानां छात्राणां विद्यार्थिनां कुलैः तत्तत्समूहै: समाकुलं-व्याप्तम् / अध्यापकधुर्यसत्यके:-अध्यापकेषु शिक्षकेषु धुर्योऽप्रेसरः यः सत्यकिः तदाख्यः भूदेवः तस्य / मठं-छात्रालयम् / अवापत्-प्राप्तवान्, स कपिल इति पूर्वेण सम्बन्धः (उपमा)॥१११।। . अथ सत्यकेरातिथ्यप्रवृत्तिमाह-तमापतन्तमितितमापतन्तं समवेक्ष्य सत्यकि,-ययुक्त पीठानयने बहूनयम् / स्वयं पुनः प्रत्युदियाय साधवः, क्रमस्य निर्मान्ति नहि व्यतिक्रमम् // 112 // व्याख्या-अयं-सत्यकि:- तदाख्याध्यापकोऽसौ / तं-कपिलम् / आपतन्तम्-आगच्छन्तं / समवेक्ष्य-इष्ट्वा / बहून्-अनेकान, शिष्यान् / पीठानयने-पीठस्यासनस्यानयने आनयनकर्मणि, एतेनातिथ्योत्सोहः सूचितः / न्ययुङ्क्त-नियोजितवान् / “विष्टरः पीठमासनमि" ति हैमः। स्वयम्-आत्मना / पुन:-च। प्रत्युदियाय-स्वागतार्थ प्रत्युजगाम, नन्वेवमुत्साहे को हेतुस्तत्राह-हि यतः। साधवःसज्जनाः। क्रमस्य-अवसरोचितकर्त्तव्यस्य, शिष्टाचरितपरिपाट्या वा व्यतिक्रमम्-उल्लचनं / न-नैव / निर्मान्ति-कुर्वन्ति / यदुक्तम् “तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता / एतान्यपि सतां गेहे, नोच्छिद्यन्ते कदाचन” इति / एवं चातिथिव्यतिक्रमे साधुताहानिः स्यादिति भावः / अत्र सत्यकिकृतोत्साहस्य साधुकृतक्रमाव्यतिक्रमरूपसामान्यार्थेन समर्थनादर्थान्तरन्यासः // 112 // अथाऽऽगते कपिले सत्यकेरातिथ्यप्रकारमाह-तमासन इतितमासने सत्यकिरासयत् स्वयं, विधाप्य पाद्यादिकमयमादरात् / किमातिथेयाः समुपागतेऽतिथौ, न तथ्यमातिथ्यमहो वितन्वते // 113 // व्याख्या-सत्यकिः-तदाख्याऽध्यापकः / आदरात्-आदरपूर्वकं पाद्यं पादार्थमुदकं तदादिकमध्ये पूजा, विधाप्य कारयित्वा, छात्रादिभिः / स्वयम्-आत्मनैव, तम् आगतमतिथिम् / आसने-पीठे / आसयत्समुपावसयत् / एवं विधाने हेतुमाह- आतिथेयाः-अतिथौ साधवः, अतिथिविषये आदराधिकाः / समुपागते-सम्प्राप्ते / अतिथौ-प्राघूर्णके / किं-किम्प्रकारम् / आतिथ्यम्-अतिथिसत्कारं / तथ्यं