________________ आशपमध्यम्-आशयस्य मानसस्य मध्ये इति आशयमध्यम् / आस्थितां-कृतास्पदा / कषायतां-मलिनवासनां / बहिः-बाह्यभागे / विकृष्यैव-निसायैव / निदर्शयन् इत्र-प्रकटयन्निवोपलक्षितः / अत्र कषायवस्योरन्तःकषायात्मना सम्भावनादुत्प्रेक्षा // 108 / / अथ तस्य कृत्यान्तरमप्याह-अनामिकायामितिअनामिकायां दधदङ्गुलीयकं, हिरण्मयं नव्यकुशोपशोभितम् / जनाय भक्त्या प्रगति प्रकुर्वते, चिराय जीवेति शुभाशिषो ददत् // 109 // ___ व्याख्या अनामिकायां-कनिष्ठापार्श्वस्थायामङ्गुल्यां। नव्यकुशोपशोभितं-नव्येन नूतनेनाचिरोत्पाटनेन कुशेन दर्भेण उपशोभितं / हिरण्मयम्-स्वर्णविकारम् / अङ्गलीयकम्-ऊर्मिकाम् , “अङ्गुलीयकमूमिका" इत्यमरः / दधत-धारयन् , 'अशून्यन्तु करं कुर्याद हिरण्यरजतैः कुशै' रित्युक्तरितिभावः / भक्त्या-प्रेम्णा / प्रणति-प्रणामं / कुर्वते-विदधते / जनाय-लोकाय / चिराय जीव-चिरं, जीव / इति-इत्थं प्रकारं / शुभाशिषः-शोभनाशीर्वादान् / ददत्-वितरन् / / 109 // अथ तं दृष्ट्वा लोकचेष्टामाह-विवन्धमानः इतिविवन्द्यमानः वचनापि बन्दिभि-विनम्यमानः कचनापि बाहुजैः / वितर्यमाणः कचनापि वाणिजैः, कुतोऽयमागादिति भाषणोन्मुखैः // 110 // व्याख्या-कचन-कुत्रापि / बन्दिभि:-स्तुतिपाठकैः, "बन्दिनः स्तुतिपाठकाः' इत्यमरः। यद्वा बंदते स्तुवन्ते तच्छीला वन्दिनः, तैः / विवद्यमानः-स्तूयमानः / वचन-कुत्रापि / बाहुजैः-"राजन्यो बाहुजः क्षत्रियः” इत्यमरकोशोक्तेः, क्षत्रियैः / विनम्यमानः-पूज्यबुद्धथा प्रणम्यमानः / कचन-कुत्रापि / कुतःकस्माद्देशाद् / अयं-दृश्यमानो जनः / आगाद्-आगमत् / इति इत्येवं / भाषणोन्मुखैः-वक्तुमुद्यतैः / वाणिजैः-व्यवहारिभिः / वितर्यमाणः-विचार्यमाणः, विलक्षणमूल् तदुपस्थितेरिति भावः // 110 / / अथ तस्यनियतस्थानप्राप्तिमाह-अवापदितिअवापदध्यापकधुर्यसत्यके-मटं पठच्छात्रकुलैः समाकुलम् / अलब्धमध्यं जलराशिवजडैः, सरस्वती सन्ततिशालिभिवृतम् // 111 // ( पञ्चभिः कुलकम् )