________________ [54 ] - व्याख्या-स:-कपिलः / शास्त्राणि-सर्वशास्त्रम् / अभियोगयोगत:-अभियोगः, उद्यमः तस्य योगतः “अभियोगोद्यमौ” इति हैमः। पित्रापाठनेऽप्रेरणेऽपि स्वयं पठनादिति / अधीत्य-प्रपठ्य / केनापिकल्पितेन / छलेन-व्याजेन निमित्तेन / गृहात-स्वसद्मनः / निर्गत:-निष्क्रान्तः, गृहे गुप्ताध्ययनस्य कदाचित् प्रकाशेऽपमानसम्भवाव / अप्रकाशेऽपि योग्यताऽनुरूपमानाऽलाभाञ्च / बहिर्गत्वैव महत्त्वलाभसम्भवादितिभावः / सकलां-समयां / वसुन्धरां-पृथ्वीं / निरीक्ष्यमाण:-अवलोकमानः / क्रमात्-क्रमशः / रत्नपुर-तन्नाम / पुरं नगरं / समासदत-प्राप्तवान् // 106 // अथ सन्मानप्राप्त्यर्थ तस्य तत्रत्यकृत्यमाह पञ्चभिः श्लोकः-प्रकाशयनितिप्रकाशयन् बाह्मणतां यथास्थितों, विनिर्मितै‘दशभिर्विशेषकैः / समुच्चरन श्रावकतां गुरूदितै,-व्रतैरिवोपोसक एव कञ्चन // 107 // व्याख्या-विनिर्मितः-रचितैः / द्वादशभिः-द्वादशसंख्याकैः / विशेषकैः-तिलकैः / ययास्थिताम्यथा योग्यतया स्थितामकृत्रिमा / बाह्मणतां-भूसुरतां / प्रकाशयन-प्रकटयन् , ब्राह्मणानां द्वादश विशेषकाः, तथाहि मस्तके। एकः 1, भालेत्रिपुण्ड्र 3 (2-3-4.) मूर्ध्वपुण्ड्रं 1 (5) बिन्दुश्चेति 1 ( 6 ) पञ्च / कर्णयोर्द्वयोद्वौं, 2(7-8) कण्ठे एकः 1 (9) बाह्वोयोद्वौं 2 (10-11) हृदये एकः 1 (12 ) संकलनया द्वादश इति / “तिलकतमालपत्रचित्रपुण्ड्रविशेषकाः” इति हैमः / गुरूदितै:-गुरूपदिष्टैः / व्रतैः-नियमैः / श्रावकतां-द्वादशवतधारिताम् / समुच्चरन्-उद्विरन् / कश्चन-अनिर्दिष्टनामा / उपासक:-श्रमणोपासना तत्परश्श्राद्धः / एव इव नूनं यथा, यथा कोऽपि कृत्रिमा श्रावकतां प्रकटयति तथा कृत्रिमा ब्राह्मणतां प्रकटयन्नित्यर्थः / अत्रोपमाऽलङ्कारः // 107|| अथ तस्य वनधारणमाह-उभे इतिउभे वसानः स कषायवाससी, वनोत्थमाध्याह्निकपुष्पसच्छवी / कषायतामाशयमध्यमास्थितां, बहिर्विकृष्यैव निदर्शयन्निव // 108 // व्याख्या-वनोत्थमाध्याहि कपुष्पसच्छवी-वनेऽरण्ये उत्थम् उद्भूतं यन्माध्याहिकं अह्रिजातमाह्निकं, आह्निकं च तत् पुष्पमाह्निकपुष्पम् “माध्यं कुन्दं” इत्यमरवचनाव माध्यस्य कुंदस्याह्निकपुष्पम् माध्याहिक पुष्पम् , तद्धि द्वितीयदिने पर्युषितं सत् कषायवर्णं भवतीत्यत एतद्ग्रहणम् , तादृशपुष्पस्य सती शोभना छविरिव छविर्ययोस्ते तथाविधे, माध्याह्निकेतिपाठेतु मध्याह्नभवं पुष्पम् माध्याह्निकम् , तस्य सती शोभना छविरिव छविर्ययोस्ते तादृशी / उभे-द्वे / कषायवाससी-कषायवर्णे वस्ने / वसानः-परिदधव / स-कपिलः /