________________ [53 ] ____ अथ तस्योद्योगप्रकारमाह-यथा यथेति___ यथा यथा ऋग्गणसारणामिमी, कराङ्गुलीभिः कुरुतः स्म नोदितौ / तथा तथा कोपिल एष मूकवत्-तटस्थितः सर्वमबुद्ध बुद्धिभृत् // 104 // व्याख्या-नोदितौ-पित्रा प्रेरितौ। इमौ–नन्दभूतिश्रीभूती / कराङ्गुलीभिः-करस्य पाणेरङ्गुलीभिः / यथा यथा-यादृग् यादृग् , वीप्सायां द्विरुक्तिः / ऋग्गणसारणाम्-ऋचां वेदमन्त्राणां गणः समूहः तस्य सारणां प्रवृत्तिम् प्रस्तारं मात्रागणनामित्यर्थः, ऋगध्ययनकाले हि छात्राः अङ्गुलिपर्वसु मात्रां गणयन्तीति व्यवहार इति भावः / कुरुतः स्म-विदधतः स्म, / मूकवत्तटस्थितः-मूकः वाग्धीनस्तेन तुल्यम् मूकवत्तटस्थितः, एकभागे स्थितः, किञ्चिदवदन्नेव नातिदूरप्रदेशस्थितः / एषः प्रस्तुतः / कापिल:-कपिल एव कापिलः / बुद्धिभृत-बुद्धिं बिभर्तीति बुद्धिभृत् , धीमान् , / तथा तथा तेन तेन प्रकारेण / सर्वम्ज्ञातव्यमखिलम् / अबुद्ध-ज्ञातवान् / एतेन तस्यासाधारणप्रतिभा सूचिता / बुद्धिमतां शैलीमात्रमलमितिभावः // 104 // अथ तत्पुत्राभ्यां तस्य वैशिष्ट्यमाह-पाठ्यमानावपीतिप्रपाठ्यमानावपि शाठ्यमानितौ, हठेन पित्रापि मठेऽपि नन्दनौ / तथा न वेदार्थविशेषवेदिना-वुपेक्षमाणोऽपि यथा स कापिलः // 105 // व्याख्या–पित्राऽपि-जनकेनापि, अपिना शिक्षकान्तरवैलक्षण्यं सूचितम् , पुत्राध्यापने पितुः यत्नविशेषस्यावश्यम्भावादितिभावः / मठेऽपि-स्वमन्दिरे छात्रालयेऽपि च "मठश्छात्रादिनिलय" इत्यमरः / अपिना इतरछात्रापेक्षयाऽत्र यत्नाधिक्यमुक्तम् / हठेन-बलात्कारेणाऽपि / प्रपाठ्यमानौ-अध्याप्यमानौ तौ / नन्दनौ-विप्रपुत्रौ, नन्दिमूतिश्रीभूती / शाठ्यमानितौ-शाठ्यं शठतां दुष्प्रवृत्तिम् अममानदिति शाठ्यमानितौ तौ दुष्प्रवृत्तिपरायणौ पठनेऽसावधानौ / तथा तादृक् / वेदार्थविशेषवेदिनौ-वेदार्थ विशेषेण रहस्यज्ञानपूर्वकं वित्त इति तौ तादृशौ / न-नैव / यथा-येन प्रकारेण / उपेक्षमाणोऽपि-दासीपुत्रत्वेन नातिचारुकृतोद्योगोऽपि / स कापिल:-कपिलः सः वेदार्थविशेषवेदीति शेषः / नाषरे उप्तं बीजं फलतीतिभावः / अत्र हि श्रमसत्त्वेऽपि फलाभावे शाठ्यमानितौ इत्यस्य पदार्थस्य हेतुत्वावगमाव काव्यलिङ्गम् / वस्तुतस्तु कविप्रतिभोत्थापितार्थ एवालङ्कारचर्चा न लोकप्रसिद्धार्थे इति अत्र वस्तुकथनमात्रम् / / 105 / / अथ महत्त्वाकाङ्क्षया तस्य प्रवृत्तिमाह-अधीत्येतिअधीत्य शास्त्राण्यभियोगयोगत-इच्छलेन केनापि गृहात् स निर्गतः / निरीक्ष्यमाणः सकलां वसुन्धरां, क्रमात् पुरं रत्नपुरं समासदत् // 106 //