________________ [ 52 ] अथ तस्य विद्याध्ययनमाह-निजाङ्गजावितिनिजाङ्गजावद्धतरूपवैभवो, त्रयीमुखोऽध्यापयितुं त्रयीमयम् / परिश्रमं यं निरमादनुत्तरं, स एष जज्ञे कपिले फलेग्रहिः // 102 // व्याख्या-अयम्-असौ। त्रयीमुखः-विप्रः, स वेदविद्, धरणीजटः, "बाह्मणस्तु त्रयीमुख" इति हैमः। अद्भतरूपवैभवौ-अद्भुतो अभूतपूर्वः रूपस्य वैभवो रूपसम्पद् ययोस्तो, निरतिशयसौन्दर्यसम्पन्नौ / निजाङ्गजौ-निजौ स्वौ अङ्गजौ, पुत्रौ / त्रयीम् वेदत्रयम्, 'श्रुतिः स्त्री वेद आम्नायस्त्रयी' त्यमरः, स्त्रियामृक्सामयजुषी इति वेदास्त्रयस्त्रयी' त्यप्यमरः / त्रयीमयम् इत्यन्वयकरणे तु वेदमयमित्यर्थो करणीयः / प्रारंभेऽयमिति नानुसन्धेयमिति / अध्यापयितुं-शिक्षयितुं यं यत्प्रकारम् / अनुत्तरं-अविद्यमानः उत्तरः प्रधानः यस्मात्तादृशं सर्वोत्कृष्टं / परिश्रमम्-आयासं / निरमात्-व्यधात् / स एष-श्रमः सः / कपिले-कपिलापुत्रे फलेग्रहि:-फलप्राप्त्याऽवन्ध्यः, सफल इति यावत् , 'फलावन्ध्यः फलेग्रहि' रिति हैमः / जज्ञे-जातः, महता हि कृतो यत्नः लक्ष्यस्यायोग्यत्वादन्यत्रापि फलवान् भवत्येवेति भावः / अत्र यदर्थमुद्यमः न तत्र फलम् किन्त्वन्यत्रेति विरुद्धसंघटनाद्वषमाऽलङ्कारः, स च कपिले फलेपहिरित्युक्त्या यदर्थउद्यमस्तत्र फलाभावबोधन प्रयुक्तपरिसंख्यानुप्राणित इति द्वयोरङ्गाङ्गिभावः सङ्करः // 102 // अथ नान्यार्थ कृत उद्यमोऽन्यत्र फलवान् भवतीत्याशङ्कय तत्र युक्तिमाह-समीपवर्तीतिसमीपवर्ती च स पारिचारिकः, तयोरधीतौ समजायताधिकम् / प्रमादसन्दर्भविमर्दनोद्यताः, प्रकुर्वते किं न गुणार्थिनः खलु // 103 // व्याख्या-तयोः-नन्दिभूतिश्रीभूत्योः / समीपवर्ती-समीपे अन्तिके परिचर्यादिकरणेन कृत्वा बर्तते इत्येवंशीलोऽन्तिकचरः / स च स एषः कपिलः / पारिचारिकः-सेवकः / अधीती-अध्ययने / अधिकं-विशेषं यथा स्यात्तथा / समजायत-अभवन् “नियोज्यः परिचारकः” इति हैमः / ननु सामीप्यमात्रतः कथमेवमजनि, तत्राह-प्रमादेति, प्रमादसन्दर्भविमर्दनोद्यता:-प्रमादस्य "प्रमादोऽनवधानता" इत्यमरोक्तेः अनवधानतायाः यः संदर्भः परम्परा प्रकरणं वा तस्य विमर्दने उन्मूलने उद्यताः सन्ततोद्यमशीलाः अप्रमत्ताः स्वकार्य प्रति इत्यर्थः / गुणार्थिनः-गुणगृह्णवः / कि न-तवकि यन्न / खलु निश्चयेन / प्रकुर्वते-प्रविदधते, अपि तु सर्वमेवासाध्यमपि प्रकुर्वते इत्यर्थः / अत्र कपिलस्याध्ययनेऽधिकत्वरूपविशेषस्य अप्रमत्ताः सर्व कुर्वन्तीति सामान्येन समर्थनादर्थान्तरन्यासः // 10 //