________________ [51] __ व्याख्या-तयो:-दम्पत्योः। रूपसम्पदा-सौन्दर्यसमृद्धथा। सुयुग्मजाताविव-सुशोभनौ यौ युग्मजातौ यमलजौ अश्विनीकुमारौ तद्वत् यमलजानां प्रायः सरूपत्वादिति भावः / सुलक्षणौ-सामुद्रिकोक्तशुभलक्षणयुक्तौ। तनयौ-पुत्रौ / अभृताम्-अजनिषाताम् / आद्यः-ज्येष्ठः। किलेति-वाक्यालङ्कारे / अमिल्यया-नाम्ना / नन्दिभृतिक:-नन्दिमूतिरिति / पुनः-भूयः / पर:-द्वितीयः। श्रीयुतभृतिसंज्ञक:श्रीयुतः श्रीशब्दयुक्तो यः भतिः-भूतिशब्दः तत्संज्ञकः तन्नामा श्रीभूतिनामेत्यर्थः / अत्र द्वयोः युग्मजातत्वाभावात्तत्त्वेन सम्भावनभित्युत्प्रेक्षा / / 99 // अथ तस्य तृतीयपुत्रोत्पत्तिवर्णनोपयुक्तां दासी वर्णयति-पराऽपीतिपराऽपि तद्वत्तुरभूनिकेतने. सनातनश्रीभवदुच्चकेतने / अनेकनानाविधकर्मकर्मठा,-ऽशठाऽपि दासी कपिलाऽभिधानतः // 10 // व्याख्या-तद्वत: तयोः नन्दिमूतिश्रीभूतिपुत्रयोः वप्ता पिता तस्य धरणीजटस्य / सनातनश्रीभवदुचकेतने-सनातना पौर्वापर्यादागता सार्वदिकी या श्रीः सम्पद् तया, भवद उच्चं केतनं पताका यस्मिन् ताशे, 'पताका केतन' इतिहैमः / धनाढ्या हि स्वगृहे महत्त्वसूचकं केतनं स्थापयन्तीति भावः / निकेतने-सद्मनि / अनेकनानाविधकर्मकर्मठा-अनेकानि बहूनि यानि नानाविधानि प्रत्येकं विभिन्नप्रकाराणि कर्माणि कार्याणि तत्र कर्मठा दक्षा / अथ च अशठा-अनलसा “शठो निष्कृतिकोऽलसः” इत्यमरः / अभिधानतः-संज्ञातः / कपिलातन्नाम्नी / परा-उत्तमा अन्या वा / अपि-पुनः / दासी-मुजिष्या। अभूत-जाता // 100 / / __ अथ तत्सुतं वर्णयति-सुत इतिसुतस्तदीयस्तदभिख्यया जनै-रवाचि यत् तत्कपिलोत्र विश्रुतः। अहार्यमेधाभवनं सकृच्छुत, - ग्रहाग्रही संवरवैरिविग्रहः // 101 // व्याख्या-तदीयः-दास्याः / सतः-पुत्रः / तदभिख्यया-तस्या दास्याः अभिख्यया नाम्ना / जनैः-लोकैः। यत्-यस्माद्धेतोः। अवाचि-कथितः, दासीपुत्रोऽयमिति परिचयार्थ लोकैः स मातनाम्नैवाहूत इत्यर्थः / तत्-तस्मात् / कपिल:-इति नाम्ना / विश्रुत:-प्रसिद्धः / अत्र-इह लोके। अहार्यमेधाभवनम्-अहार्या अनपायिनी, दृढा या मेधा धारणावती बुद्धिस्तस्याः भवनमाश्रयः दृढमेधावी, इत्यर्थः / अत एव सकृच्छ्रुतग्रहाग्रही-सकृत् एकवारमपि यच्छ्रतं तस्य ग्रहे ग्रहणे धारणे आग्रही परायणः, श्रुतधर इत्यर्थः / तथा संबरवैरिविग्रहः-संवरस्य तदाख्यासुरस्य वैरी शत्रुः कामः स इव विग्रहः शरीरं यस्य तादृश , माराभिरामः, अमूदिति शेषः / “शंबरारिमनसिजः”, इति, "शरीरं वर्म विग्रहः" इति चामरः // 101 // .. :