________________ [5. ] ___ व्याख्या-यदीयम्-यस्या इदं यदीयं यत्सम्बन्धि, यशोभद्राया इत्यर्थः / अन्तःकरणं-हृदयं / विवेकरत्नाभरणेन-विवेकः सदसद्विवेचनमेव रत्नाभरणं तेन ! भूषितम्-अलस्कृतम् युक्तमिति यावद,एवम्भूतं सद / विदिद्युते-विललास / अवाप्तवाह्याभरणा-अवाप्तं धृतं बाह्यमाभरणमलङ्करणं यया सा तादृशी / शिवापि-पार्वत्यपि / स्वरूपतः-आकृतितः, यस्या. यशोभद्रायाः, यद्वा अवाप्तबाह्याभरणाऽपि शिवा। अपिना यशोभद्रायाः बाह्याभरणराहित्यं सूच्यते / यस्याः यशोभद्रायाः / स्वरूपता-साम्यं / न अञ्चति-नैव प्राप्नोति / साभरणाया निराभरणया साम्याभाव उचित एव। एतेनावाप्तब्राह्याभरणा शिवाऽपीत्यनेनाभ्यन्तराभरणाऽभावस्तस्यास्सूचितः, तथा चाभ्यन्तराभरणस्यैव वास्तविकत्वेन तद्भूषिताया यशोभ्रद्रायाः, शिवापेक्षयाऽऽधिक्यं प्रतिपादितमितिभावः / अत्र विवेकरत्नाभरणेनेति रूपकम् , रत्नेन भूषितत्वमन्यत, विवेकेन च भूषितत्वमन्यत्, द्वयोर्भेदे पि अभेदोक्तेरतिशयोक्तिः, सा च पूर्वोक्तरूपकानुप्राणिता, तथा बाह्याभरणस्य सौन्दर्यातिशयजनकत्वात्तथाभूताया अपि शिवायाः सौन्दर्येण तत्साम्यालाभोक्तेः हेतौ सत्यपि कार्यानुत्पत्तिवर्णनात् विशेषोक्तिः / यशोभद्रायाः विवेकाभरणयुक्तत्वात् शिवायाश्च तदभावात साम्यालाभ इति विवेकरत्नाभरणेनेत्यस्य साम्यालाभे हेतुत्वावगमात्काव्यलिङ्गम् / विश्वात्र विरोधाभासः, साभरणायाः साभरणायाः परस्परं साभरणत्वेनैव साम्यस्य निर्विवादत्वाव, तत्परिहारस्तु विवेकविशेषणेनापरत्र बाझविशेषणेन, तेषां सर्वेषाश्च सङ्करः // 97 / / ( युग्मम्) अथ तयोः सौख्यं वर्णयति-तया सममितितया समं भोगपरम्परामय, सुखं समास्वादयतो द्विजन्मनः / कियाननेहा व्रजतिस्म यामवत्, क्षणे क्षणे यः सृजतिस्म संमदम् // 18 // व्याख्या-तया-यशोभद्रया / सम-सह / भोगपरम्परामयं-भोगस्य उपभोगस्य स्रक्चन्दनवनितादेः परम्परा श्रेणी तन्मयं तत्प्रचुरं / सुखम्-आनन्दं / समास्वादयत: अनुभवतः / द्विजन्मनः-धरणीजटस्य, विप्रस्य / यामवत्-प्रहरवत, “यामः प्रहर" इति हैमः / कियान्–कतिसंख्यकः / अनेहा-समयः, “स्यात् कालः समयो दिष्टाऽनेहसौ” इति हैमः। व्रजतिस्म-व्यत्यगाद / य:-कालः / क्षणे क्षणे-प्रतिक्षणम् / संमदं हर्षम्, “मुत्रीतिः प्रमदो हर्षः प्रमोदामोदसंमदाः” इत्यमरः। सृजतिस्म-जनयतिस्म / अत्र कति संख्यककालस्य यामात्मना सम्भावनादुत्प्रेक्षा // 98 // अथ तयोः पुत्रप्राप्तिमाह-तयोरितितयोरभूतां तनयो सुलक्षणो, सुयुग्मजाताविव रूपसम्पदाम् / ' अभिख्ययाऽध किल नन्दिभूतिकः, परः पुनः श्रीयुतभूतिसंज्ञकः // 19 //