________________ [ 49 ] लोकेभ्यः स्वसङ्गोपनं प्रसिद्धमिति भावः / दिवं-स्वर्ग / समासाद्य-प्राप्य / इह पराजितस्य स्वर्गगमनं न विद्धयते इति भावः / सजीवतां-जीवेन जीवनेन जीवेतिनाम्ना च सह सजीवः, तस्य भावस्तत्तां, स्वर्गतस्य तत्र जीवेन शरीरग्रहणं नामग्रहणश्च भवत इति भावः / ललौ–प्राप्तवान् / अत एवात्र स न दृश्यते इति ध्वनिः / यद्वा स-बृहस्पतिः। जीवतां-ललौ, जीवो बृहस्पतिः तस्य भावः जीवता, तां स्वर्गतस्सन् स्वीकृतवानिति "बृहस्पतिः सुराचार्यो जीवः” इति हैमः / अत्र हि असुराणामुपदेशाय बृहस्पति स्तिकतामङ्गीचकारेति पौराणिकी कथाऽनुसन्वेया / अत्र च धरणीजटेन शास्त्रार्थे पराजितत्वमध्यवसीयते इति असम्बन्बे सम्बन्धरूपातिशयोक्तिः, तथा नास्तिकभावमित्यादिसामान्यविशेषणोपादानेन बृहस्पतौ मृतात्मव्यवहारसमारोपाव समासोक्तिः / तथा गुरुः वाक्पतिरपि शास्त्रार्थे धरणीजटेन पराजितः, का चर्चाऽन्येषाम् - इति गुरुरित्यादिविशेषणानां साभिप्रायत्वात् परिकराऽलङ्कारश्च “उक्तिविशेषणैः साभिप्रायैः परिकरो मतः," इति तल्लक्षणात् / तथा च त्रयाणामेकाश्रयानुप्रवेशरूपः सङ्करः // 15 // ____ अथ तस्य पत्नी वर्णयति-अभूदितिअभूद्यशःपूर्वपदा जनीपदा-श्रितापि भद्रा किल तस्य धीमती / उवास यस्या हृदि नव मत्सरो, भ्रमत्सरोषापरसंस्तवेऽप्यहो // 96 // व्याख्या-तस्य-धरणीजटस्य / किलेति-निश्चये। यशःपूर्वपदा-यशःशब्दः पूर्वपदं वाचकत्वेन नाम्नि यस्याः सा / भद्रा-भद्राशब्दवाच्या यशोभद्रा इति नाम्नीत्यर्थः / धोमती-बुद्धिमती / जनीपदम्जनी इति पदं जनीपदं तेनाऽऽश्रिता वाच्यत्वेन या सा, वधूपदवाच्या, दयितेत्यर्थः / अभूत-अजनि / अपीति-वाक्यालङ्कारे, अथवा विरोधे, यशःपूर्वपदाऽपि जनीपदाश्रिता इतिविरोधः / यशःपूर्वपदस्य शब्दस्य जनीपदाश्रितत्वाघटनाव पूर्वोक्तार्थेन तु तत्परिहारः, यद्वा जनीति पृथक्पदम् भायेत्यर्थः / “वधूर्भार्या जनी” इति हैमः। पदाश्रिताऽपि स्वस्वामिचरणसेविकाऽपीत्यर्थः। यस्या:-यशोभद्रायाः / हृदि-चित्ते / भ्रमत्सरोषाऽपरसंस्तवेऽपि-भ्रमत्सञ्चरन् , अथ च सरोषः सक्रोधः यः अपरोऽन्यो जनः तेन संस्तवः परिचयः तस्मिन्सत्यपि सक्रोधजनसंपर्केऽपि / मत्सरः-द्वेषः / नैव-न, उवास-स्थितवान् / अहो-इत्याश्चर्ये, द्वेषशून्यम् तस्याः हृदयम् परस्य सत्यप्यपराधे क्षमाशीलेति यावत् / अत्र पूर्वार्धे विरोधाऽलङ्कारः / उत्तरार्धे तु मत्सरहेतुसकोधपरिचयेऽपि कार्यस्य मत्सरस्याभावोक्तेः विशेषोक्तिरलङ्कारः / तल्लक्षणं यथा-"सति हेतौ फलाभावे विशेषोक्तिः प्रकीर्तिता” इति / एवञ्च द्वयोरेकाश्रयानुप्रवेशः सङ्करः // 16 // अथ प्रकारान्तरेण तामेव वर्णयति-विवेकेतिविवेकरत्नाभरणेन भूषितं, यदीयमन्तःकरणं विदिद्युते / अवाप्तवाह्याभरणा शिवाऽपि यत्, स्वरूपतामञ्चति न स्वरूपतः // 97 // (युग्मम् )