________________ [48 ) अथ तस्य राजसम्मानमाह-तदद्भतमिति - तदद्भुतं यन्नृपसौधतोरणे, न्यधायि येनैकसुवर्णपत्रकम् / चकार रार्ग हृदि तन्महीभुजा, विनैव चूर्ण विदुषां विरागताम् // 94 // व्याख्या-येन-धरणीजटेन / नृपसौधतोरणे-नृपस्य श्रीषेणराजस्य सौधस्य प्रासादस्य यत्तोरणम् / बहिरम् “बहिरं तु तोरणमि" ति हैमः / तत्र / एकसुवर्णपत्रकम्-एक सुशोभना वर्णाः अक्षराणि यस्मिन् तादृशम् , यत् पत्रकम् , पत्रमेव पत्रकं विन्यस्तशोभनाक्षरपत्रमित्यर्थः, प्रशस्तिपत्रमिति यावत् / न्यधायि-स्थापितम् लम्बितम् / तत्-पत्रं / चूर्ण-वशीकारविद्वेषणसाधनरजः, रागद्रव्यविशेषश्च / तद्विनैव - तदन्तरेणैव / महीभुजा-राज्ञां / हृदि-चित्ते / रागम्-प्रीतिम् अलौकिकप्रतिभया तत्प्रशस्तेर्निर्माणात् सर्वेषामेव हृदि तस्याः प्रीतिजनकत्वाव,यदुक्तं भगवता हेमचन्द्रेण"काव्यमानन्दाये" ति ।विदां--पण्डितानां हृदीत्यनुषज्यते। विरागताम्-अप्रीतिम्, स्वस्य तादृशप्रसस्तिनिर्माणेऽसमर्थत्वात् परोत्कर्षाऽसहिष्णुत्वाचेतिभावः / यच्चकारविदघे / तदद्भतम्-अलौकिकम् , नोकमेव वस्तु परस्परविरुद्धकार्यद्वयसाधकं कापि प्रसिद्धम् , न वा तन्त्रप्रतिपादितचूर्णादिव्यतिरेकेण मोहनं विद्वेषणं वा कापि दृष्टमित्यद्भुतमेवैतदितिभावः / अत्र चूर्णादि हेतुं विनैव रागादिकार्योत्पत्तिवर्णनाद्विभावनाऽलङ्कारः / तल्लक्षणं यथा-"विभावना विना हेतुं कार्योत्पत्तियदुच्यते” इति / किञ्च एकस्यैव महीमुजां हृदि रागजनकसुवर्णपत्रकस्य विदुषां हृदि तद्विरुद्धविरागजनकत्वमिति विषमाऽलंकारः / तल्लक्षणं तथा-"विरुद्धयोः सङ्घटना या च तद्विषमं मतम् ," इति / तयोश्च सुवर्णपत्रकरूपैकाश्रयानुप्रवेशरूपसङ्करः // 14 // अथ तस्य सकलशास्त्रज्ञत्वं वर्णयति-अनाप्नुवन्नितिअनाप्नुवन् येन समानतां गुरु-विवादकाष्ठां कलयन बृहस्पतिः। प्रपद्य तन्नास्तिकभावमात्मनो, दिवं समासाद्य सजीवतां ललौ // 15 // (त्रिभिर्विशेषकम् ) व्याख्या-येन-धरणीजटेन / विवादकाष्ठाम-शास्त्रार्थस्य काष्ठामुत्कृष्टताम् / कलयन्–प्राप्तः, शास्त्रार्थ कुर्वन्नित्यर्थः / गुरु:-महान् अथ चोपदेष्टुत्वेनाचार्यत्वेन वा ख्यातः / बृहस्पतिः-सुराचार्यः 'बृहस्पतिः सुराचार्यः' इति हैमः / समानतां-समकक्षताम् / अनामवन्-अलभमानः, हीनतां गतः पराजित इति यावत् / तव-तस्मात् कारणाव लज्जया इतिशेषः / आत्मन:-स्वस्य / नास्तिकमावम्-नास्तिकस्य नास्त्यात्मा पुण्यं पापञ्चेति बुद्धिर्यस्य स नास्तिकः तस्य, यद्वा नास्ति परलोकं तत्साधनमदृष्टं तत्साक्षीश्वरो वेति मतिर्यस्य स नास्तिकः तस्य चार्वाकस्य भावं तत्त्वं / प्रपद्य-प्राप्य, स्वं सङ्गोप्य इत्यर्थः, महतः पराजितस्य हि