________________ [47] करणेन परीक्षाप्रदानेन च / क्षणं--कश्चित्क्षणं / नृपोपासनया-नृपस्य स्खपितुः राक्षः उपासनया सेवनया / खलूरिकाश्रमेण-खलरिका शस्त्राभ्यासार्थमूमिस्तत्र यः श्रमः व्यायामादिकरणं, तेन च कधिवक्षणं / गमयाम्बभूवतुः-व्यतिचक्रमतुः / “तद्भः खरिका' इति हैमः // 91 // अथ राज्ञोऽङ्गजयोः प्राप्तिस्तयोश्च विद्यादानं पितृगृहे च विनोदपूर्वकस्थितिमभिधायाप्रे तयोविशेषमभिधित्सुः राजनिधनजनककथान्तरमवतारयति-इतधेति इतश्च विप्रो मगधोपवर्तनोत्तमाचलग्रामनिवासविश्रुतः / अपारशास्त्राम्बुधिपारदृश्वनां ललामभूतो धरणीजटोऽभवत् // 92 // .. व्याख्या-इतश्च-अत्रान्तरे / मगधोपवर्तनोत्तमाचलग्रामनिवासविश्रुतः-मगधाख्यं यदुपवर्तनं देशः "देशविषयौ तूपवर्तनम्" इत्यमरः / तत्र उत्तमे श्रेष्ठे अचले प्रामे निवासेन अवस्थानेन कृत्वा विश्रुतः प्रसिद्धः अचलपामवास्तव्य इत्येवं प्रसिद्ध इत्यर्थः / प्रामनाम्नाऽपि हि लोके प्रसिद्धिदृश्यते इति भावः / अपारशाखाम्बुधिपारदृश्वनाम्-अपारो निःसीमा यः शास्त्रमेवाम्बुधिः समुद्रः तस्य पारं दृष्टवन्त इति पारदृश्वानः तेषां तादृशानां / ललामभूतः-शिरोमणिरूपः / विप्रः-भूदेवः / धरणीजट:-तथानामधेयः / अभवत्-बभूव / "भूदेवो वाडवो विप्रः” इति हैमः / अत्र अपारस्य पारदृश्वा इति विरोधः / पाराभावे तदर्शनाऽसंभवात् / अर्थान्तरपरतया तु तत्परिहार इति विरोधालङ्कारः / ललामभूत इति च रूपकम् , द्वयोः संसृष्टिः / / 92 // अथ त्रिभिस्तत्प्रभावातिशय वर्णयति-महेशमौलावितिमहेशमौलौ पदमादधाति यो, बुधेन सार्धं विरुणद्धि यः क्षयी / किमश्नुते तव्यतिरिक्तलक्षणः, स येन किञ्चित् समतां द्विजेश्वरः // 93 // __ व्याख्या-य:-द्विजेश्वरः / महेशमौलौ--महेशस्य महादेवस्य धनाढ्यस्य च मौलौ मस्तके / पदम्-- किरणमथ च चरणम् / आदधाति-निक्षिपति / बुधेन--तदाख्यग्रहेण अथ च पण्डितेन / साधं-सह / विरुणद्धि-विरोधं करोति / यः क्षयी-क्षयधर्मा, कृष्णपक्षे द्विजेश्वरकलानां क्रमशोऽपचयादिति भावः / अथ च च्यादीनां समधिकसेवनजन्यक्षयरोगवांश्च / तद्वयतिरिक्तलक्षणः-ततः पूर्वोक्तधरणीजटाव व्यतिरिक्तानि भिन्नानि लक्षणानि यस्य सः, यतो हि धरणीजटो न धनिमौलौ चरणमादधति, न हि बुधेन विरोधं विधत्ते, न च क्षयरोगवानिति / सः-पूर्वदर्शितः / द्विजेश्वर:-चन्द्रः, 'द्विजराजः शशधरः' इत्यमरः, 'इथप्राभ्यां जाति-जन्म-जाः' इति हैमः / द्विजेषु-ब्राह्मणेषु ईश्वरः समृद्धो ब्राह्मणश्च / येन-धरणीजटाख्येन द्विजराजेन / किश्चित्-ईषदपि / समतां-साम्यम् / अश्नुते किम्-प्राप्नोति किम् ? नैवावाप्नोतीत्यर्थः / अत्रोपमानचन्द्रादेरपेक्षया धरणीजटस्याधिक्यवर्णनाव व्यतिरेकालकारः // 9 //