________________ [ 46 ] अथ तयोर्गुरुकुलाद् गृहागमनमाह-समग्रेतिसमग्रविद्याकुशलौ महीभुजे, समर्पितौ तौ गुरुणा कलाविदा / प्रकुर्वतां प्रश्नमुदारधीमता, दृढ़ हरन्तौ विषमार्थसंशयम् // 89 // व्याख्या-कलाविदा-कलां विद्यां वेत्तीति कलावित् , तेन शास्त्रशेन / गुरुणा--आचार्येण / समग्रविद्याकुशलौ-समप्रा समस्ता या विद्या तत्र कुशलौ पारङ्गतौ, अत एव / प्रश्न प्रकुर्वतां-पृच्छां विदधताम् / उदारधीमताम्-उदाराणां पक्षपातरहिताणां धीमतां सुधीनां / विषमार्थसंशयम्--विषमो गहनो योऽर्थस्य तत्तद्वस्तुनश्संशयः यद्वा विषमस्य कुशाग्रबुद्धिग्राह्यस्यातिगूढस्यार्थस्य पदार्थस्य यस्संशयः सन्देहस्तम् / दृढं-- सयुक्तिकम् / हरन्तौ-दूरीकुर्वन्तौ, एतेन तयोः शास्त्रतत्त्वज्ञत्वमुक्तम् / तौ-राजपुत्रौ / महीभुजे-राज्ञे / समर्पितौ-प्रदत्तौ / समप्रविद्यां शिक्षयित्वा पित्रे कलाविद्गुरुस्तौ समर्पयदित्यर्थः / / 89 // __अथ नृपस्याचार्याय पारितोषिकदानमाह-अध्येतिअदृष्यवैदुष्यमवेक्ष्य चैतयो,-स्तथा सुवर्ण विततार पार्थिवः / किमप्युपाध्यायवराय रञ्जितो, द्विजन्मनां येन सुवर्णताऽजनि // 10 // व्याख्या-पार्थिवश्च-नृपः पुनः / एतयोः-स्वपुत्रद्वयोः / अष्यवैदुष्यम्-अदृष्यमनन्दिनीयम् / यद्वदूष्यं पाण्डित्यं तद् / अवेक्ष्य-अवगम्य / रञ्जितः–प्रसन्नः सन् / उपाध्यायवराय-उपाध्यायेषु शिक्षकेषु वरः श्रेष्ठस्तस्मै / तथा तेन प्रकारेण / किमपि-अमितं / सुवर्ण-हेम / विततार-ददौ / येन-सुवर्णदानेन / द्विजन्मनां-ब्राह्मणानां / सुवर्णता-सुवर्ण काञ्चनमस्ति यस्य सः सुवर्णः, अर्शादित्वान्मत्वर्थीयोऽच तस्य भावः सुवर्णता, सुवर्णवत्तेत्यर्थः / सुष्टु शोभनो वर्णश्चास्ति यस्य स सुवर्णः तस्य भावस्तत्ता, वर्णेषु चतुर्विधेषु श्रेष्ठता "वर्णानां ब्राह्मणो गुरुरित्युक्तेः” सुवर्णवत्ता वर्णश्रेष्ठता चेतिभावः / अजनि-अभूव / अत्र वर्णश्रेष्ठत्वस्य सुवर्णदानहेतुत्वकत्वासम्बन्वेऽपि तथोक्तरसम्बन्धे सम्बन्धरूपातिशयोक्तिरलङ्कारः / स च सुवर्णतेति श्लेषानुप्राणित इति तयोः सङ्करः // 10 // ____अथ तयोः दिनचर्यामाह-क्षणमितिक्षणं धनुर्वेदविशेषशिक्षया, क्षणं कुमारौ विदुषां परीक्षया / क्षणं नृपोपासनया खलूरिकाश्रमेण कञ्चिद् गमयांबभूवतुः // 11 // . : व्याख्या-कुमारी-तौ राजनन्दनौ धनुर्वेदविशेषशिक्षया-धनुर्वेदस्य या विशेषशिक्षा उत्कृष्टाभ्यासस्तया / क्षणं-कश्चिदिति परतः सम्बध्यते, कश्चिमणमित्यर्थः / विदुषां--पण्डितानां / परीक्षया-परीक्षा