________________ विशेषः-शस्त्रशास्त्रयोस्तारतम्यम् , दीर्घाकारेण कण्ठ्यस्वरेण कृतः प्रयुक्तः। अथ च आकृतिकृतः / विभाव्यताम्-विचार्यताम् , आकारेण लोके यथा परस्परं विशेषः भेदः तथा शस्त्रशास्त्रयोः आकारकृतः सः, शस्त्रशब्दे न दीर्घाकारस्वरः, शास्त्रे तु सोऽस्ति, ततः द्वयोः कार्येऽपि द्विगुणतारतम्यम् / एकमात्रिकहस्वाकारयुक्तशस्त्रेण एको बाझ एव विषयो वश्यः, द्विमात्रिकदीर्घाकारयुक्त शास्त्रेण द्वये आन्तरा बाझाश्च विषया वश्याः, अतः शस्त्रापेक्षया प्रथमं शास्त्रायैव प्रयतितव्यम् / यस्मिन् कृते शस्त्रकार्यमपि सेत्स्यत्येवेति शास्त्रार्थमुद्योगे महान् लाभ इति भावः / अत्र आकारकृतो विशेष इति सामान्येनार्थेन, शस्त्रास्त्रयोर्विशेषस्य समर्थनात् सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासोऽलङ्कारः // 86 // अथैवं विचारानन्तरं तत्कर्त्तव्यमाह-हृदा इतिहृदा विचायति महीभुजाऽपि तौ, महाकलाचार्यसमीपमापितौ / स शिक्षयामास कलाः कलाशयो, गुरूँश्च ताँस्तौ विनयादरञ्जतुः॥८७॥ // पञ्चभिः कुलकम् // व्याख्या-महीभुजा--राज्ञा / इति--पूर्वोक्तप्रकारेण / हृदा--मनसा / विचार्य-विचिन्त्य / तौराजपुत्रौ / महाकलाचार्यसमीपम्-महान् यः कलानामाचार्यः उपदेष्टा तस्य समीपम् / आपिती-प्रापितौ प्रेषितावित्यर्थः / स-यस्य समीपे राजतनयौ प्रेषितौ सः / कलाशय:-कला आशये यस्य स, कलाकलापज्ञः / कला:-नृत्यगीताद्याः चतुष्पष्टिकलाः / शिक्षयामास-उपदिदेश / तान गुरूँश्व-गुरुश्च गुरुश्च गुरुश्चेति गुरवः तान् , मातापितरौ कलाचार्यश्चेत्यर्थः / तौ--राजपुत्रौ / विनयाद्-आर्जवतः / ररञ्जतु:-प्रीणयाञ्चक्रतुः / एतेन विद्याध्ययनस्य सद्यः फलमुक्तम् “विद्या ददाति विनयम्” इत्युक्तेः / ( पञ्चभिः कुलकम् ) // 8 // अथ अनायासेन तयोर्विधासम्पत्तिमाह-समेत्येतिसमेत्य विद्याः सकलाः सिषेविरे, नृपाङ्गजौ तौ विनयोपशोभितौ / स्वतोऽपि मासस्य च पक्षकावुभौ, तुषाररश्मेरिव चारुचन्द्रिकाः // 8 // व्याख्या-सकला:-समस्ता आन्वीक्षिक्यादयः / विद्याः कलाः / समेत्य-मिलित्वा, नत्वेकैकशः / एतेन तयोः सकृदेव सकलविद्याप्राप्तिरिति सूचितम् / विनयोपशोभितौ-विनयेनार्जवेनोपशोभितौ विलासितो, तौ-द्वौ / नृपाङ्गजौ-राजपुत्रौ / सिषेविरे-भेजिरे। तुषाररश्मे:-चन्द्रस्य / चारुचन्द्रिका:-चार्यो मनोहारिण्यो याश्चन्द्रिकास्ताः / मासस्य-पक्षद्वयात्मकस्य / उमौ-द्वावपि / पक्षको शुलकृष्णपक्षको / स्वतःस्वयमिव च / न हि पानयोस्तदर्थ कोऽपि प्रयासः / एवं तयोरप्यनायासेनैव सकलविद्याप्राप्तिरित्यर्थः / उपमालङ्कारः /