________________ [14] आदरः / ईक्ष्यते-विलोक्यते / तान्-तादृशान्, अगुणज्ञान् जडाशयान् मन्दबुद्धीन् , डलयौरेक्याजलाशयाँश्च / क:-जनः। अभिवाञ्छति-अभिलषत्यपि, न कोऽपीत्यर्थः / अयं भावः कमलादिपरिपूर्ण जलाशये हंसस्व बकस्य च स्वयोग्यवस्तुलाभद्वारा तारतम्यम् प्रकटम् / पल्वले तु कमलाद्यभावाद् द्वयोः शम्बूकादिप्राप्तिरेवेति न पल्वलं जनहृदयावर्जकम् तथा माज्ञजनश्शास्त्रीयानुभवविवेकशालीति सम्यग्ज्ञानचारित्रादियुक्तत्वेन सदाचारिणि हिंसादिकर्तृत्वेन दुराचारिणि च स्वस्वयोग्यतापरीक्षाकरणेन तारतम्यं निश्चिनोति, नतु मूर्खः, तथाविधज्ञानाभावेन तारतम्यभानाऽभावादिति तादृशं मुखं सर्वोऽपि जिहासत्येव, न तु तं संसजति, अतः पुत्रशिक्षणमत्यावश्यकम्, यथा जनतिरस्कारविषयो माभूदिति / अत्रापि पूर्वपद्यवज्जलाशयानिव जलाशयानिति उपमा ध्वनिः शब्दशक्तिमूलः / न तु श्लेषः, प्रकरणादेकत्राऽर्थेऽभिधाया नियन्त्रितत्वात् / / 84 // अथ मूर्खतायां दोषमुक्त्वा सम्प्रति बुधत्वे गुणमाह-पुरन्दरस्येतिपुरन्दरस्य त्रिदिवेऽस्ति मानना, भुजङ्गलोकेऽपि भुजङ्गमप्रभोः / प्रजासु किञ्चिजयिनः प्रजापते,-र्बुधस्य सर्वत्र च बुद्धिशालिनः // 85 // व्याख्या-पुरन्दरस्य-इन्द्रस्य / त्रिदिवे-स्वर्गे, नत्वन्यत्र / भुजङ्गमप्रभोः-भुजङ्गमानां सर्पाणां प्रभोरीशस्य शेषनागस्य / भुजङ्गलोके-नागलोके, पाताले इत्यर्थः, नत्वन्यत्र / किञ्चिजयिनः-किंचित् स्वल्पमपि जयिनः जयशीलस्य, यद्वा किश्चित् राज्यान्तरस्य जयिनः प्रतापवतः इत्यर्थः / प्रजापतेः-प्रजानां पतिः नृपः तस्य / प्रजासु-स्वप्रजासु, नत्वन्यत्र / बुद्धिशालिन:-धीमतः / बुधस्य-विदुषश्च / सर्वत्र-स्वर्गमर्त्यपातालेषु विष्वपि लोकेषु / मानना-सत्कृतिः। अस्ति-भवति / ततो विद्वत्त्वं सर्वस्मादेव श्रेष्ठमित्यर्थः / अत्र बुद्धिमत्त्वरूपेण गुणेनेतरापेक्षया बुधस्याधिक्चवर्णनाद् व्यतिरेकालङ्कारः / स च त्रिदिवे नत्वन्यत्रेत्यादि परिसंख्यया परिपुष्ट इति द्वयोः सङ्करः / परिसङ्घयालक्षणं यथा-"प्रश्नादप्रश्नतो वापि कथिताद् वस्तुनो भवेत् / ताहगन्यव्यपोहश्वेच्छाब्द आर्थोऽथवा तदा" परिसंख्या इति / अत्र च अप्रश्नतः आर्थः नत्वन्यत्र माननेति परव्यवच्छेदः, तस्मात्परिसंख्यानुप्राणितोऽत्र व्यतिरेकः // 85 // अथ विदुषो गुणान्तरमाह-भवन्तीतिभवन्ति वश्या विषया बहिस्तना, नृपस्य शस्त्रैरपरे न चान्तराः / द्वयेऽपि शास्त्रैस्तदयं विशारदे-विशेष आकारकृतो विभाव्यताम् // 86 // व्याख्या-नृपस्य-रानः / शस्त्रैः-खङ्गादिप्रहरणैः, कृत्वा। बहिस्तना:-बाझाः / विषया:-देशाः "विषयस्तूपवर्त्तनमदेशः” इति हैमः, पदार्थाः वा / वश्या:-अधीना / भवन्ति-जायन्ते / अपरे-अन्ये / मान्तरा:--अन्तःस्थाः कामादयः / न च-नैव / शास्त्रैः-आगमैः / द्वये--उभये, बहिस्तना आन्तराश्च / विशारदः-सूरिभिः “मेधाविकोविदविशारदरिदोषला" इति हैमः / वयम्-तत्तस्मादय, सद्यः प्रदर्शितः /