________________ [43 ] - व्याख्या-महीपते:-श्रीषेणराज्ञः / तौ अपि-दावपि / प्रगल्भमानौ-सहजप्रतिभायुको "प्रगल्भः प्रतिभान्वितः" इति हैमः / तनयौ-पुत्रौ। अमुना-विलक्षणेन / प्रसलालनकर्मणा-“जनयित्री प्रसूर्माता जननी" इत्यमरोके, प्रसूः जननी उपलगत्वात् पञ्चवात्री वा तया यल्लालन पालनं तस्य कर्म-अनुष्ठानं तेन / नदोरयेणेव-नदीवेगेनेव / “वेगे रयः" इति हैमः / रसाप्लुतौ-रसैः जलैः पक्षे स्नेहै: आप्लुतो व्याप्तौ / तटोतीराविव 'तीरं च प्रतीरं च तटं त्रिषु' इत्यमरः / भृशमत्यन्तं वृद्धिमुपचयमापतुः प्रापतुः : अत्राऽपि उपमालकारः // 82 // अथ तयोः शिक्षणार्थ नृपस्य विचारमाह चतुर्भिः श्लोकः-जनैरितिजनैरुपर्यासितुमाहतापि यत्, स्थितिस्तु नीचैरनुधावति स्वयम् / जडेन तेनाऽपि न कोपि संस्तवं, करोति तृष्णापरितापवर्जितः // 83 // __ व्याख्या-जनैः-लोकैः / उपरि-उच्चैः, पक्षे उत्तमत्वेन, आसितुं-स्थातुं,स्थितिं कर्तुम् / आहताऽपिगृहीताऽपि, मानपूर्वकाभिलाषविषयीकृताऽपि च / यस्थिति:-यस्य जडस्य स्थितिः प्रकृतिः प्रवृत्तिर्वा / नीचैः-कुमार्गे निम्नप्रदेशे, च / अनुधावति-गच्छति / तेन-तादृशेन / जडेन-मूर्सेन,डलयोरैक्थाव जलेन चापि / तृष्णापरितापवर्जितः तृष्णा धनेच्छा जलेच्छा च, तया परितापो दाहस्तेन वर्जितः रहितः निस्पृहो निस्तृषश्च / कोऽपि-कश्चिदपि / संस्तवं-परिचयं / न-नैव / करोति-विधत्ते, किञ्चिद्धनादि प्राप्तीच्छयैव लोकाः मूर्खेन परिचयं कुर्वन्ति, अन्यथा तु मूर्योऽयमिति ततो निर्विन्दन्त्येव / तथा पिपासयैव लाकाः जलं प्रति सोत्सुकाः भवन्ति, अन्यथा तु ततो दूरादेव गच्छन्ति / अत्र शब्दशक्तिमूलो जडेन जलेनेवेति उपमाध्वनिः, नतु श्लेषः, प्रकरणेन जडपदस्य मूर्खार्थे तात्पर्यावधारणाव, जलार्थस्य वाच्यत्वाभावात् / श्रेषस्तु श्लिष्टैः पदैरनेकार्थाभिधान एव // 83 // अथ निर्विद्यत्वे दूषणान्तरं चिन्तयति-सरस्वतीतिसरस्वतीब्रह्मनिरासनस्थिते-बकस्य हंसस्य च जीवनाशिनः / समैव येषु प्रतिपत्तिरीक्ष्यते, जडोशयाँस्तानपि कोऽभिवाञ्च्छति // 84 // व्याख्या-सरस्वतीब्रह्मनिरासनस्थितेः-सरस्वती वाणी ब्रह्मा प्रजापतिः तयोः यन्निष्कृष्टम् तत्त्वभूतम् आसनमास्यतेऽत्रेत्यासनम् “पीठमासनम्” इत्यमरकोशोक्तेः पीठम् , तत्र, आसनत्वेनेति यावत् , स्थितिरवस्थितिर्यस्य तस्य, सरस्वत्या ब्रह्मणश्च हंस आसनमिति शास्त्रम् / यद्वा सरस्वती विद्या ब्रह्म ब्रह्मचर्य तयोः यन्निरासनम् तत्त्वतः उपासनम् तत्रस्थितिरवस्थानम्मनोयोंगो यस्य तस्य हंसस्य मरालस्य "हंसेषु तु मरालाः स्युः” इति शेषनाममाला, आत्मनश्च, तथा / जीवनाशिनः-जीवान् , नाशयतीत्येवंशोल: जीवनाशी, तस्य मत्स्यादिप्राणिसमूहघातकस्य, यद्वा जीवान् नाशयति अपकरोतीति तस्य, हिंसति हिनस्ति वा तस्य, षकस्य तदाख्य पक्षिविशेषस्य; बकवस्करस्य दुर्जनस्य च / येषु-यत्र / समैव-तुल्यैव, तारतम्यविहीनैव / प्रतिपत्ति: