________________ [42] .. ... अथ तयोः पुत्रयोः नामकरणमाह-महोत्सवेष्विति-..... महोत्सवेषु प्रथितेषु सर्वतः, सरत्सु किश्चित्समया व्यतिक्रमम् / स इन्दुषेणं तनयं पुरैककं, परं पुनः प्राह च बिन्दुषेणकम् // 80 // व्याख्या-सर्वतः-सर्वभावेन विष्वक् च 'सर्वतो विष्वक् समन्ताञ्च' इति हैमः / महोत्सवेषु-महामहेषु, पुत्रजन्मप्रयुक्तषु / प्रथितेषु-ख्यातेषु “प्रतीते प्रथितख्यातेत्यमरः” / सरत्सु-प्रचलत्सु सत्सु / किनिवस्वल्पम् / समयाव्यतिक्रमम्-समयस्य-आचारस्य,सिद्धान्तस्य,अवसरस्य,सङ्केतस्य वान व्यतिक्रम उल्लकनं यस्मिन् कर्मणि, तद् यथा स्यात्तथा, 'समयः-सिद्धान्ताचारसङ्केतनियमावसरेषु च' इति हैमानेकार्थः / स-नृपः, श्रीषणः। पुरा-प्रथमम् / एतेनानुक्रमो लक्षितः / एककम्-प्रथमम् , “प्राक् पुरा प्रथमे" इति हैमः / “एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा" इति विश्वः / तनयम्-पुत्रम्। इन्दुषेणम्-इन्दुषेणनामानं / पुनश्च-मूयः। परम्-द्वितीयम् / बिन्दुषणकं-बिन्दुषेणनामानं। प्राह-कथयामास, तन्नाम व्यधात् इत्यर्थः // 8 // . अथ तनये जाते तस्य सौभाग्यमाह-कशीलवाभ्यामिवेतिकुशीलवाभ्यामिव मैथिलीपति -बुंधोशनोभ्यामिव वासरेश्वरः / अयं रदाभ्यामिव गन्धसिन्धुरो, वृतः सुताभ्यां परभागमाप सः॥८१॥ व्याख्या-शीलवाभ्यां-कुशलवेतिख्याताभ्यां पुत्राभ्यां 'रामपुत्रौ कुशलवावेकयोक्त्वा कुशीलवा' विति अ० वि० 3.368, द्वावप्येकेन वचसा कुशश्च लवश्व कुशीलवौ, राजदन्तादित्वात् साधुः / मैथिलीपतिःमैथिल्याः वैदेयाः पतिः प्रियः श्रीरामचन्द्रः, स इव / बुधोशनोम्यां-बुधश्च उशना च भार्गवश्व “शुको दैत्यगुरुः, काव्य उशना भार्गवः कविः” इत्यमरः / ताभ्यां / वासरेश्वरः-वासरस्य दिनस्य ईश्वरः पतिः सूर्यः, स इव रदाभ्यां--दन्ताभ्यां / "दन्तो रदः” इत्यमरः / गन्धसिन्धुरः--गन्धगज इव / अयं-प्रस्तुतः / स:-प्रसिद्धः नृपः राजा श्रीषेणः / सुताभ्यां-पुत्राभ्याम् इन्दुषेण बिन्दुषेणाभ्यां / वृतः-मुक्तः / परमार्गगुणोत्कर्ष, परभागो गुणोत्कर्षः” इति हैमः / आप-प्राप्तवान् / अत्रैकस्यैवोपमेयस्य राज्ञः अनेकोपमानप्रदर्शनान् मालोपमाऽलङ्कारः / तलक्षणं यथा-"मालोपमा यदेकस्योपमानं बहु दृश्यते” इति // 81 / / अथ तयोः लालनमाह-प्रगल्भमानाविति.. प्रगल्भमानो तनयो दिने दिने, महीपतेस्तावपि वृद्धिमापतुः / भृशं प्रसूलालनकर्मणाऽमुना, नदीरयेणेव तटौ रसाप्लुतो // 2 //