________________ व्याख्या-प्रिया-दयिता, सा राशी / हदि-मनसि "हन्मानसं मनः" इत्यमरः / लज्जया अप्रकटनादिति मावः / यं यं यत्प्रकारम् 'वीप्सायां द्विरुक्तिः / दौड़दं-दोहदं,"दोहदं दौहृद"मिति हैमः गर्भाभिलामितियावत् / दधार धारयामास / परिपृच्छता-देव्याः जिज्ञासमानानां / महलकानां-महतः बीरभादि रूपान् विपुलाद भारान् लाति गृह्णातीति तादृशानाम् अन्तर्वेशिकानां मुखादास्याव सकाशाद / स-श्रीषेणाख्यः / वसुधासुधाकर:-वसुधायां पृथिव्यां सुधाकरश्चन्द्ररूपः / तं तं-तत्प्रकार, सर्व / विबुध्य-सात्वा / सलीलमअनायासम् / एतेन तस्य प्रभावातिशयः सूचितः / आत्मना-स्वयमेव, न त्वन्यद्वारेण / एतेनादरांतिशयः उक्तः / पूरयामास-पूरितवान् / न हि महतां किमप्यशक्यमलभ्यं वेति भावः // 7 // ___ अथ तस्याः पुत्रप्रसवमाह-गतेष्वितिगतेषु मासेषु नवस्वनुक्षणं, दिनेषु चार्द्धाष्टमयुक्षु सप्तसु।। यथा सुमित्रा सुषुवे तथा यमौ, शुभे मुहूर्ते नृपतिप्रियाऽपि सा // 7 // व्याख्या-अनुक्षणं-क्षणमनतिक्रम्य / नवसु-नवसंख्यकेषु। मासेषु-पक्षद्वयात्मकेषु / अष्टिमयुक्षुअ| योऽष्टमस्तेन युक्तेषु / सप्तसु-तावत्सङ्ख्येषु। दिनेषु-वासरेषु, सार्धसप्तरात्रिंदिवेष्विति भावः / गतेषु-व्यतीतेषु ।एतेन गर्भसमयपूर्तिः प्रतिपादिता / शुभे-मङ्गलमये ।मुहर्ते-समयविशेषे / यथा-येन प्रकारेण / सुमित्रा-दशरथनृपस्य तृतीया पत्नो, तन्नाम्नी / तथा-तद्वत् / सा-अभिनन्दिता नाम्नी / नृपतिप्रियाऽपिनृपते राज्ञः प्रिया दयिताऽपि / यमौ-यमलौ, तनयो / सुषुवे-प्रसूतवती। अत्रोपमालङ्कारः स्पष्टः // 78 // __ अथ तस्य नृपस्य पुत्रजन्मश्रवणाव हर्षावेगमाह-स इतिस सौविदल्लैर्युगपत् सुतद्वय-प्रसूतिवर्धापनकेन वर्द्धितः / इदं न देयं भवतीति मानतो, विवेद न प्रीतितरङ्गितो नृपः // 79 // . व्याख्या-सौविदल्लै:-सुष्ठु विदं विद्वांसमपि लान्ति वशं कुर्वन्तीति सुविदल्लाः तासामिमे रक्षकाः सौविदल्लाः, तैः कञ्चकिभिः, अन्तःपुररक्षकैः “सौविदल्लाः कञ्चुकिनः" इति हैमः / युगपत-सकृदेव / सुतद्वयप्रसूतिवर्धापनकेन-सुतद्वययोर्या प्रसूतिर्जन्म तस्याः वर्धापनकम् हर्षोक्तिः तेन / वर्द्धितः-वर्द्धापनिकां प्रापितः, अत एव / प्रीतितरङ्गित:-प्रीत्या आनन्देन तरङ्गितः उच्छलितः, प्राप्तहर्षावेगः / स-श्रीषेणाख्यः। नृपः-राजा / मानतः-तारतम्यतः / इदम्-एतद्वस्तु / देयम्-दानयोग्यम् , अस्मै। न भवति इति-न वर्तत इति / न विवेद-न झातवान् / हर्षावेशात्तदयोग्यमपि ददौ इत्यर्थः / किरीटस्य राजचिह्नत्वात्तन्मुक्त्वाऽङ्गस्थं सर्व / ददाविति भावः // 79 //