________________ [40] निजांयुके-स्वसूक्ष्मवस्ने / ग्रन्थिनिबन्धनं-स्मारकप्रन्थिविशेषबन्धनं / व्यधात्-कृतवती, शुभफलं श्रुत्वा नार्यः तत्राप्तिपर्यन्तं प्रन्थि बद्धां निजांशुके रक्षन्तीति लोकाचारः // 4 // ____ अथ तस्या गर्भधारणमाह-तदादीतितदादि गर्भ दधती व्यभादियं, सुखेन पीयूषमिवेन्दुमण्डली / समग्रगोत्रोज्ज्वलतां प्रकुर्वती, समुल्लसन्मौक्तिकतारहारका // 75 // व्याख्या-तदादि-तदारभ्य / इयं-राज्ञी / इन्दोर्मण्डली-चन्द्रबिम्बं / पीयूषम्-अमृतमिव / सुखेन-सुखपूर्वकं ।गर्भ-दोहदलक्षणं / 'गर्भस्तु दोहदलक्षणमिति' हैमः / दधती-धारयन्ती। समुल्लसन्मौक्तिकतारहारका--समुल्लसन् शोभमानः मौक्तिकतारस्य शुद्धमौक्तिकस्य “तारो मुक्तादिसंशुद्धौ तरणे शुद्धमौक्तिके" इति विश्वकोशः / हारः मुक्ताहार इत्यर्थः यस्या राज्याः सा तथा / पक्षे मौक्तिकतुल्यताराणां नक्षत्राणां हारः स्रग् यस्याः सा तादृशी (इन्दुमण्डली) 'तारो निर्मलमौक्तिके / मुक्ताशुद्धावुचनादे, नक्षत्रनेत्रमध्ययो' रितिहैमानेकार्थः / समग्रगोत्रोज्ज्वलतां-समग्राणां सकलानां गोत्राणां स्वपतिपितृवंशानां, पक्षे अद्रिगोत्रगिरीत्यमरवचनात् गोत्राणां पर्वतानामुज्ज्वलतां निर्मलतां यशसा, इन्दुमण्डलीपक्षे चन्द्रिकया धावल्यम् / प्रकुर्वतीविदधती / व्यभाव-शोभतेस्म / अत्रोपमाऽलङ्कारः स्पष्टः / / 75 / / अथ गर्भधारणानन्तरं तच्चेष्टामाह-स्वभावत इतिस्वभावतो राज्यपि मन्दगामिनी, विशेषतो मन्थरतामुवाह सा / मदानुषङ्गात् करिणीव चाटुभिः, प्रपद्यमानाऽशनभोगजं सुखम् // 76 // व्याख्या-स्वभावतः-निसर्गात् , अपिना गर्भधारणात्तु सुतरां / मन्दगामिनी-मन्दं शनैर्गच्छतीत्ये-- वंशीला मन्दगामिनी मन्थरगमनेत्यर्थः / कुलस्त्रीणां द्रुतगतिनिषेधादिति भावः / सा-प्रस्तुता अभिनन्दिताख्या। राज्ञी-अप्रमहिषी। मदानुषजात-'मदो दान' मित्यमरोक्तेर्मदस्य मदोदकस्य दानजलस्यानुषङ्गः संपर्कस्तस्मात् / करिणीव-हस्तिनीव / चाटुभिः-प्रियप्रायवचनैः / एतेन स्वतोऽरुचिर्दर्शिता / अशनभोगजं-अशनस्यभोजनस्य भोगोऽनुभव उपभोगात्मकः, उपलक्षणतया पानादेरपि / तस्माज्जायते इति तत् / सुखं-सातम् / प्रपद्यमाना-स्वीकुर्वाणा / विशेषतो-अत्यन्तम् गर्भभरगुरुत्वादितिभावः / मन्थरताम-सालसगमनताम् / उवाह-प्राप्तवती / गर्भभारगुरुत्वाद्धि स्त्रियो मन्दं चलन्तीति भावः / अत्रोपमालङ्कारः स्पष्टः // 6 // अथ तस्याः दौहृदपूर्तिमाह-दधारेतिदधार यं यं हृदि दौ«दं प्रिया, महल्लकानां परिपृच्छतां मुखात् / विबुध्य तं तं वसुधासुधाकरः, स पूरयामास सलीलमात्मना // 77 //