________________ [ 39 ] व्याख्या-क्ष्मापति:-क्ष्मायाः मयाः पतिः राजा / तस्या:-निजप्रियायाः / वदनेन्दुसम्भववदनं मुखमिन्दुश्चन्द्र इव वदनमेववेन्दुवंदनेन्दुः स सम्भवः उत्पत्तिस्थानं यस्य तव मुखचन्द्रनिर्गतं / वचोऽमृतंवचो वचनमेवामृतं सुधा तत् / निपीय-सादरं श्रुत्वा / इति-वक्ष्यमाणप्रकारम् / अभ्यधाव-कथितवान् / इतीति किमित्याह-शुभे-शुभगुणयुक्ते / पुरासश्चितपुण्यसश्चये-पुरा पूर्वजन्मनि सश्चित उपार्जितः पुण्यस्य सुकृतस्य सञ्चयः राशियया सा तत्सम्बोधने, पुराकृतपुण्यशालिनि / त्ववा-भवत्या / उदितस्वमफलं-उदितस्य कथितस्य स्वप्नस्य फलं। निशम्यताम्-श्रूयताम् / अत्र रूपकालङ्कारः / यद्वा निपानलक्षितश्रावणप्रत्यक्षकर्मतायाः वचस्येव नत्वमृते सम्भवेन अमृतमिव वचः इत्युपमितसमासस्यैवाश्रयणीयतया प्रधानस्य तस्य वचसः इन्दूदुद्भवत्वाभावेन इन्दुरिव वदनमितीहाप्युपमित समासस्यैवाश्रयणेन वदनसम्भवतायाः स्थिरीक्रियमाणतया उपमानुप्राणितोपमालङ्कारः // 72 // अथ राज्ञोक्तं फलमाह-यश इतियशोविनिर्धूतसुधांशुमण्डलौ, प्रतापसन्तर्जितसूरमण्डलौ / : वसुन्धरामण्डलमण्डने श्रिया, भविष्यतस्ते तनयो नयोज्वलौ // 73 // व्याख्या-यशोविनिर्धूतसुधांशुमण्डलो-यशसा कीर्त्या विनिर्धूतं तिरस्कृतं सुधांशोश्चन्द्रस्य मण्डलं बिम्ब याभ्यां तौ तादृशौ चन्द्रबिम्बादपि तद्यशसोऽधिकशुभ्रत्वादिति भावः / प्रतापसन्तर्जितसूरमण्डलोप्रतापेन स्वतेजसा सन्तर्जितं भर्सितं सूरस्य सूर्यस्य मण्डलं बिम्बं याभ्यां तौ तादृशौ "सूरसूर्यार्यमादित्ये" त्यमरः / सूरादप्यधिकचण्डत्वात्तत्तेजस इति भावः / नयोज्ज्वलौ-नयेन नीत्या उज्ज्वलो विशुद्धौ प्रशस्तनीतिमन्तौ / श्रिया-शोभया लक्ष्म्या च / वसुन्धरामण्डलमण्डने-वसुन्धरा पृथिवी तस्या मण्डलं वलयं तस्य मण्डने मूषणरूपे। विभूषणं मण्डन' मित्यमरः। ते-तव / तनयौ-पुत्रौ / भविष्यतः-जनिष्यतः / अत्रोपमानाभ्यां चन्द्रसूराभ्यामाधिक्यवर्णनाद् व्यतिरेकः // 73 // अथ फलश्रवणानन्तरं राहीकर्त्तव्यमाह-इतीरितमितिइतीरितं स्वप्रफलं प्रियेण सा, निशम्य सम्यकपरिभूतसंशया / ममास्त्विति स्पष्टनिवेदनोन्मदा-निजांशुके ग्रन्थिनिबन्धनं व्यधात्॥७४॥ व्याख्या-सा-अभिनन्दिता / प्रियेण-कान्तेन / इति–पूर्वोक्तप्रकारम् / ईरितं-कथितं / स्वमफलं-दर्शनपरिणामं / निशम्य-श्रुत्वा। सम्यकपरिभूतसंशया-सत्यस्वरूपतया परिभूतः दूरीभूतः संशयः शुभस्य स्वप्नस्य फलं न वेत्याकारकसंदेहः यस्या सा तथामूता सती / मम-मदर्थे / तदितिशेषः / अस्तु-भवतु / इति-इत्यं / स्पष्टनिवेदनोन्मदा-स्पष्टं प्रकटं यनिवेदनं ज्ञापनं तेनोन्मदा प्रचुरहर्षाकुला /