________________ [ 38 ] कल्पा तन्द्रायां तथैव सम्भवादितिभावः / मुदिता-प्रसन्ना, अनेन शुभस्वप्नसामग्री सूचिता, चिन्तामनस्य शुभस्वप्नाऽदर्शनात् / व्यलोकयम्-अपश्यम् // 69 // ___ अथ स्वप्नस्वरूपमाह-यश इतियश प्रतापाविव ते महीपते ! परस्परं संमिलितावुपागतौ / तदैव पीयूषकरप्रभाकरौ, निरस्तनिष्पिष्टतमश्चयौ रुचा // 7 // व्याख्या-महीपते। राजन् ! तदैव-प्रमीलाऽनुभवक्षण एव / ते-तव / यशःप्रतापाविव-यशश्च प्रतापश्च तौ इव / एतेन यशःप्रतापयोः समानदेशव्यापित्वं सूचितम् / परस्परं-मिथः / सम्मिलितौ-सङ्गतौ / रुचा-कान्त्या / निरस्तनिष्पिष्टतमश्चयो-निरस्तो दूरीकृतो निष्पिष्टो नाशितश्च तमसामन्धकाराणां चयः समूहः याभ्यां तो तादृशौ। पीयूषकरप्रभाकरौ-पीयूषकरश्चन्द्रश्च प्रभाकरः सूर्यश्च तौ / उपागतौ-प्राप्ताविति व्यलोकयमिति पूर्वश्लोकेन सम्बन्धः / अत्रोपमालङ्कारः स्पष्टः // 70 // अथ स्वाभीष्टं कथयति-प्रसोतिप्रसद्य सद्यस्तदमुष्य मे फलं, निवेद्यतां वेद्यविवेदकोविद ! न सुध्रुवां तत्त्वविवर्तवर्तनी-प्रवर्तिनी खल्ववलोक्यते मतिः // 71 // .. व्याख्या-वेद्यविवेदकोविद !-वेद्यो ज्ञातव्यो यो विवेदः विशिष्टज्ञानम् विशेषेण विदन्त्यर्था अनेनेति तस्य कोविद ! पण्डित ! ज्ञातव्यज्ञानाभिज्ञ ! तब-तस्मात् / प्रसद्य-प्रसन्नो भूत्वा, अन्यथा वैपरीत्यमपि कदाचित् संभाव्यते इति भावः / सद्यः-स्तत्कालम्, अनेन स्वोत्कण्ठातिशयः सूचितः / मे-मम / अमुन्यअस्य स्वप्नस्य / फलं-परिणामम् / निवेद्यताम्-कथ्यतां / ननु स्वं चेत् स्वयमेव जानासि तर्हि मम कथनेनालमित्यत आह- खलु-यतः / सुभ्रवां-नारीणां। मति:-बुद्धिः / तत्त्वविवर्तवर्तिनीप्रवर्तिनी-तत्त्वस्य सारांशस्य यो विवर्त्तः परिणामः तस्य वर्तनी मार्गः, तत्र प्रवर्तिनी प्रवृत्तिशीला रहस्यं ज्ञातुं प्रवृत्ता / न-नैव / अवलोक्यते-दृश्यते, अतस्तवकथनमावश्यकम् , स्वतस्तत्त्वाज्ञानादिति भावः / “पद्धतिर्वमवर्तनी" इति हैमः / अत्रोत्तरार्धवाक्यार्थस्य पूर्वार्द्धवाक्यार्थे हेतुत्वोपगमात् काव्यलिङ्गम् / / 71 // अथ राज्ञोवचनोपक्रममाह-निपीयेतिनिपीय तस्या वदनेन्दुसंभवं, वचोऽमृतं मापतिरभ्यधादिति / शुभे पुरासश्चितपुण्यसञ्चये, स्वयोदितस्वमफलं निशम्यताम् // 72 //