________________ [ 37 ] अथ तस्याः प्रियप्राप्तिमाह-समर्पयन्तीतिसमर्पयन्ती फलपुष्पसञ्चयं, स्वपञ्चशाखाग्रजपल्लषेन सा / / विशालपात्रोपगता महीभुजा, व्यभाव्यतारं व्रततीव तत्क्षणम् // 67 // व्याख्या-सा-अभिनन्दिता / स्वपश्चशाखाग्रजपल्लवेन-स्वस्य निजस्य यः पञ्च शाखा इवाङ्गुलयो यस्य स तादृशः करः “पञ्चशाखः शयः पाणिः” इत्यमरः / तस्याग्रजा अङ्गुलयः पल्लवा इव तेन स्वकरकिसलयेनेत्यर्थः / फलपुष्पसंचयं-फलपुष्पाणां सञ्चयं राशिं / समर्पयन्ती-ददती / पल्लवानां फलपुष्पदानं युक्तमेवेति भावः / महोभुना-राज्ञा / विशालपात्रोपगता-विशालं महत् यत्पात्रमाश्रयस्तत्रोपगता प्राप्ता / व्रततीव-लतेव "व्रततिर्लता” इत्यमरः / तत्क्षणं-सद्य एव / अरम्-अत्यर्थ / व्यमान्यतअशुभ्यत / उपमाऽलङ्कारः // 67 // अथ तस्या वाक्प्रवृत्तिमाह-निषेदुषीतिनिषेदुषी काञ्चनविष्टरे स्थिरे, नरेश्वरेणात्मकरण * दर्शिते / समुनिरन्तीव रसं सुधामयं, जगाद कल्याणकिरं गिरं च सा // 68 // ___ व्याख्या-नरेश्वरेण-राज्ञा / आत्मकरेण-निजपाणिना / दर्शिते-निर्दिष्ट्रे / स्थिरे-निश्चले / एतेन वार्तालापे निरुद्वेगसामग्री सम्पादिता / काञ्चनस्य-सुवर्णस्य / विष्टरे-आसने / निषेदुषी-उपविष्टा / सा-अभिनन्दिता / “विष्टरः पीठमासनमिति हैमः / सुधामयं-पीयूषप्रचुरममृततुल्यं / रस-रसप्रवाहम् / समुद्रिन्ती-प्रकटयन्तीव / कल्याणकिरं-मङ्गलविस्तारिणीं / गिरं-वाणी / जगाद-उदाजहार / अत्र वदनस्य सुधामयरससमुद्गिरणात्मना, संभावनादुत्प्रेक्षा // 68 // ___ अथ तटुक्तिं प्रपञ्चयति-अतिमदीयेतिअतिम्रदीयस्तमहंसतूलिका - सनाथशय्यातलभागभागिनी / विभो ! प्रमीलासुखमाश्रयन्त्यहं, मनागविबुद्धा मुदिता व्यलोकयम् // 69 // व्याख्या-विभो- प्रभो ! अतिम्रदीयस्तमहंसतूलिकासनाथशय्यातलभागभागिनी-अतिम्रदीयरतमा नितरां कोमला हंसतूलिका हंसरोमतूलिका, तया सनाथा युक्ता या शय्या-तल्पं तस्यास्तलभागं भजतीत्येवंशीला तल्पनिद्रासुखसौलभ्यप्रदर्शनायातिशयार्थकानेकपदोपादानम्। प्रमीलासुखं-प्रमीलाचाःतन्द्रायाः 'तन्ना प्रमीला' इत्यमरः / मुखं / आश्रयन्ती-अनुभवन्ती / मना-किचिद् / विबुद्धा-चैतन्यं गता प्रबुद्ध