________________ ___ व्याख्या-विशुद्धधर्मार्थनिविष्टसंविदः-धर्मश्वार्थश्च धर्मार्थो विशुद्धौ च तौ त्योः निविष्टा संलग्ना संविद् बुद्धिर्यस्य “प्रेक्षोपलब्धिश्चित् संवित् प्रतिपज्ञप्तिचेतनाः” इत्यमरः / तस्य / ताभ्यां-पूर्वोक्ताभ्यां पत्नीभ्यां / सह-सार्धमेव / नत्वेकाकिनः / सदाऽपि-सर्वदाऽपि / भोगान्- वैषयिकसुखानि / “भोगः सुखे स्यादिभृतौ” इत्यमरः / उपभुञ्जतः-अनुभवतः। सत:-वर्तमानस्य / “सन् सुधीः” इत्यमरोक्तेः सुधियो वा। अवनीशितुः-नृपतेः श्रीषेणस्य / बहवः-अनेके / दिना-वासराः / क्षणा इव-घटिकाषष्ठभागा इव / 'क्षणैः षड्भिस्तु नाडिका' इति अ. चि. का-२ श्लो. 51. व्यतीयु:-व्यतिक्रान्ताः / नहि सुखिनो दिनं दीर्घमिति भावः / अत्रानेकदिनस्य कतिपयक्षणात्मना सम्भावनादुत्प्रेक्षाऽलङ्कारः // 64 / / अथ तस्य प्रथमपन्याः स्वप्नदर्शनमाह-अथान्यदेतिअथान्यदा देव्यभिनन्दिता यथा-सुखं शयाना शयने निशात्यये / सुधांशुभास्वद्युगपन्मुखाम्बुज-प्रवेशसंस्वप्नमसौ निरैक्षत // 65 // व्याख्या-अथ-अनन्तरम् / अन्यदा-कदाचित् / शयने-शय्यायां “तल्पं शय्या शयनीयं शयनं तलिमं च तत्” इति हैमः / सुखमनतिक्रम्य, यथासुखम्-सुखं यथास्यात्तथा / शयाना-निद्रासुखभनुभवन्ती / असौ अभिनन्दिता-तदाख्या / देवी-पट्टराज्ञी / निशात्यये-रात्र्यन्ते / रात्र्यन्तस्वप्नस्य सफलत्वादितिभावः / सुधांशुः-चन्द्रः / भास्वान्- सूर्यः / तयोः, युगपत-सहैव / मुखाम्बुजे-मुखकमले, यः प्रवेशः–तस्य / संस्वप्न-सम्यक् स्वप्नम् / निरक्षत-अवलोकितवती // 65 / / अथ तदनन्तरं तस्याः कर्त्तव्यमाह-अवाप्येतिअवाप्य सा स्वप्नमनिन्दितं सतां, शुभैरवाप्यं परिहृष्टमानसा / फलानि पुष्पाणि च पाणिपुष्करे, निवेश्य कान्तं समया समापतत् // 66 // - व्याख्या-सा-अभिनन्दिता / सत्तां-सज्जनानां / अभिनन्दितं-प्रशस्यं / शुभैः-पुण्यैः / अवाप्यंप्राप्यं / स्वमम्-दर्शनम् , 'दर्शन... स्वप्नलोचनयोश्चापि' इति हैमानेकार्थः / अवाप्य-दृष्ट्वा / परिहृष्टमानसापरिहृष्टं प्रसन्नं मनश्चित्तं यस्याः सा तथा, मुदिता सती 'रिक्तपाणिर्न पश्येच्च राजानं दैवतं गुरुं / निमित्तझं विशेषेण फलेन फलमादिशेत् // 1 // ' इति शास्त्रमर्यादामवलम्ब्य / फलानि पुष्पाणि च-फलकुसुमसमूहम् / पाणिपुष्करे-पाणिरेव पुष्करं कमलमथवा पाणिः पुष्करमिव तत्र / निवेश्य-कृत्वा / कान्त-स्वामिनं / समयासमीपं / समापद-गतवती / “समयांऽतिकमध्ययोः" इत्यमरः // 66 //