________________ रक्षणे, मतिः नैव भवति // “अदण्ज्यान दण्ड्यते राजा दण्ड्यांश्चैवाप्यदण्डयन् ? अयशो महदामोति राज्यान्ते / नरकं ब्रजेत्"; "आततायिनमायान्तं हन्यादेवाविचारयन्" इत्युक्तेश्चेति भावः / अत्र श्रीषेणकृतरक्षणस्य विशेषस्य सामान्येन नृपकर्तृकरक्षणमतिरूपेण समर्थनात् सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः // 6 // अथ तस्य पत्नी प्राप्तिमाह-सधर्मचारिणीतिसधर्सचारिण्यभिनन्दिताऽभिधा, महेश्वरस्याजनि सर्वमङ्गला / शिवस्य तस्य प्रतिपद्वतो यथा, महेश्वरस्याजनि सर्वमङ्गला // 62 // व्याख्या-यथा-यद्वत् / तस्य-प्रसिद्धस्य / शिवस्य-कल्याणकृतः / प्रतिपदत:-प्रतिपञ्चन्द्रकलाकलितस्य / प्रतिपच्छब्देन प्रकृते सा शशिकला लक्षणयाऽवसेया / महेश्वरस्य-तनामविश्रुतस्य रुद्रस्य / सर्वमङ्गला-पार्वती / 'शिवा भवानी रुद्राणी, शर्वाणी सर्वमङ्गले' त्यमरः / सधर्मचारिणी-पत्नी / अजनिअभूत् / तथेतिशेषः / तस्य-प्रस्तुतस्य / शिवस्य-कल्याणवतः / प्रतिपद्वतः-प्रज्ञावतः, धीमत इति यावत् / 'प्रतिभा प्रतिपत्प्रज्ञेति हैमः / महेश्वरस्य-महांश्वासावीश्वरस्तस्य, महासंपत्समन्वितस्य राजराजस्य श्रीषेणस्व / अभिनन्दिताऽभिधा-अभिनन्दितेति अभिधा नाम यस्याः सा, तन्नानी / सर्वमङ्गला-समस्तश्रेयस्कार्यसाधिका / सधर्मचारिणी-प्रिया / अजनि-समभवत् / श्लेषानुप्राणित उपमालङ्कारो यमकश्च द्वितीयतुर्यपादाभेदत इति // 6 // अथ तस्य द्वितीयपत्नीपरिप्रहमाह-परापीतिपराऽपि जज्ञे शिखिनन्दितापरा, परास्तकामप्रसरस्य तस्य च / रसेश्वरस्येव सुरापगा प्रिया, रजोऽपहा पुण्यनिदानजीवना // 63 // व्याख्या-च-पुनः / परास्तकामप्रसरस्य-दूरीकृतमदनवेगस्य / 'प्रसरः प्रणये वेगे' इति मेदिनी / तस्य-प्रस्तुतस्य राज्ञः / पराऽपि-द्वितीयाऽपि / परा-उत्कर्षवतो / शिखिनन्दिता-तन्नाम्नो / ( परास्तकामप्रसरस्य ) ईश्वरस्य-महादेवस्य / रसा-सरसा, अनुरागवती च / रजोऽपहा धूलिहरा पापप्रणाशिका वा शोकापनुदा च / “रजः पापे च शोके चे" त्यमरः / पुण्यनिदानजीवना-पुण्यकारणपवित्रसलिला, पुण्यापादककर्मकारणजीविता च / सुरापगा-गङ्गा / इव-यथा। तथा प्रिया-दयिता / जज्ञे-बभूव / पूर्ववव श्लेषोपजीवितोपमा // 63|| अथ तत्सौख्यं वर्णयति-सहैवेतिसहेव ताभ्यामवनीशितुर्मुदा, सदाऽपि भोगानुपभुञ्जतः सतः / विशुद्धधर्मार्थनिविष्टसंविदो, दिना व्यतीयुर्बहवः क्षणा इव // 6 //