________________ [ 34 ] भिरित्यर्थः / देववत्-अनेन भीषणे तेषां पूज्यभावः सूचितः। सदैव-सर्वदेव / प्रणम्यमानस्य-नमस्क्रियमाणस्य / यस्य विमो:-प्रभोः श्रीषणस्य / क्षमा-पृथिवी / क्षमासमासङ्गवशादिव-क्षमायाः क्षान्तेः यः समासनः संसर्गः तशात् इव / तेक्षिता-श्रुता तेन राज्ञा भाकर्णिता ईक्षिता अवलोकिता च / अजावत-अजनि / सर्वमेव पृथिव्याः वृत्तान्तं स क्षमाभावेन शृणोति पश्यति चेति विलक्षणमस्य शासननैपुण्यमिति भावः / "क्षितिः झोणी क्षमा” इति, “तितिक्षा सहन क्षमा” इति च हैमः / अत्र क्षमासमासङ्गवशादिवेत्युत्प्रेक्षा / / 59 / / अथ तस्य दानकर्म वर्णयति-अजनेतिअजस्रविश्राणनकर्मणाऽर्थिनां, सुवर्णकोट्या विरचय्य योऽर्थिताम् / जहार दीनत्वविधानलालसां, जनुः कृतार्थ रचयन्निवार्थिताम् // 60 // व्याख्या-य:-श्रीपेणः / अजस्रविश्राणनकर्मणा-अजस्रं सन्ततं यद्विश्राणनं दानं दानमुत्सर्जनबिसर्जन विश्राणन मित्यमरः / तत्कर्मणा क्रियया सततदानक्रियया / सुवर्णकोट्या-सुवर्णानां कोटिस्तया / अर्थिनां-याचकानां "वनीपको याचनको, मार्गणो याचकार्थिना" वित्यमरः / अर्थितां-अर्थोऽस्यास्तीति अर्थी धनाढ्यस्तस्य भावस्तत्तां / विरचय्य-कृत्वा / जनु:-जन्म “जनुर्जननजन्मनी" त्यमरः / कृतमर्थ-प्रयोजनं यत्र तत्तादृशं कृतकृत्यं / रचयन्-कुर्वमिव दीनत्वविधानलालसां-दीनत्वस्य दारिद्रयस्य विधानं करणं तत्र लालसामभिलावती दारिद्रयविधानकामाम् / अर्थितां-याचकतां / जहार-दूरीचकार / सर्वेषामेव धनिकरणादिति भावः / अत्र अर्थिनामर्थितां विरचय्य अर्थितां जहारेति विरोधः, अर्थिनामर्थित्वस्य याचकत्वस्य स्वत एव सत्त्वात् / धनान्यत्वरूपार्थान्तरेण तु तत्परिहारः। एवञ्चात्र विरोधाऽलङ्कारः / तथा याचकत्वस्य हरणाभावेऽपि तथोक्तरतिशयोक्तिरिति द्वयोनिरपेक्षयोः संसृष्टिः // 60 // अथ तस्य दण्डं वर्णयति-कृपापरोऽपीतिकृपापरोऽपि श्रुतवानपि क्वचि-न धर्मविच्छेदकरं ररक्ष यः। नृपस्य हि न्यायपथप्रवर्तिनो, न धर्मविप्लावकपालने मतिः // 61 // (सप्तभिः कुलकम्) व्याख्या-पापरः-दयालुरपि, श्रुतवान्-शास्त्रयथार्थज्ञोऽपि सन् / य:-श्रीषेणः “य आत्मानमिव परात्मानं पश्यति स पश्यतीति महर्षिवचनामृतपानासक्ततया सर्वथैव जीवा रक्षणीया इति धीमानपि, शाखकपयोरुपादानस्य तत्रैवोपयोगात् / कचित्-कुत्रापि / धर्मविच्छेदकर-धर्मस्य लोकशास्त्रोभयसम्मतकर्मणः विच्छेदस्य करो विधायकस्तं दुराचारं सप्तव्यसनादिसेविनमन्यायकारिणं / न ररक्ष-नाक्षमत, ननु रक्षणं नृपाणां धर्मस्तथा चैतदनुचितं तत्राह हि-यतः / न्यायपथप्रवर्तिनः-न्यायस्य पन्था मार्गः तत्र नीतिमार्गे प्रवर्तते इत्येवं शीलस्य / नृपस्य-राज्ञः / धर्मविप्लावकपालने-धर्मस्य विष्ठावकः भजाकस्तस्य; पालने