________________ [33] . पुनस्तत्मतापमेव प्रकारान्तरेण वर्णयति–जलेश्वरेतिजलेश्वराशालयभावमाश्रयनितान्तपूर्वोदय एवं भानुमान् / हरित्सु सर्वासु विवृद्धिधारिणो, न यत्प्रतापस्य समानतां दधौ // 57 // व्याख्या-जलेश्वराशालयभावम्-जलानामीश्वरः पतिः वरुणः “प्रचेता वरुणः पाशी यादसां पतिरप्पतिः” इत्यमरः / तस्य आशा दिशा पश्चिमदिशा, पश्चिमदिगीशत्वात्तस्य, तत्र लयभावमस्तमनम् / आश्रयन्प्राप्नुवन् / नितान्तमेकान्ततः / पूर्वोदयः-पूर्वासु पूर्वदिशासु उदयः यस्य स तादृशः / एव-न तु कदाचिदन्यादृशः / भानुमान--सूर्यः / सर्वासु-अखिलासु दशसु / हरित्सु-दिशासु / विवृद्धिधारिणः--विशेषेण वृद्धिमुन्नतिं धरतीत्येवं शीलस्य वृद्धिमतः / यत्-यस्य श्रीषेणस्य प्रतापस्तेजस्तस्य / समानतां-साम्यं / न दधौ-न प्राप्तवान् / सूर्यो हि उदयमस्तञ्च प्राप्नोति, एतत्वतापस्तु सर्वदोदयमेवावाप्नोति सर्वास्वपि दिशास्तित्युपमानसूर्यापेक्षयोपमेयस्य प्रतापस्याधिक्यवर्णनाद् व्यतिरेकाऽलङ्कारः / / 7 / / अथ तद्यशो वर्णयति-शरदितिशरत्सुधांशुभ्रमभारकारिभिः, विनिर्जितो यस्य यशोभिरुज्ज्वलैः / भुजङ्गमानामधिपो रसातलं, प्रविश्य नूनं त्रपयेव तस्थिवान् // 50 // व्याख्या-शरत्सुधांशुभ्रमभारकारिभिः-शरदः शरदृतोः यः सुधांशुश्चन्द्रः तस्य यो भ्रमः भ्रान्तिस्तस्य भारोऽतिशयः तं कुर्वन्तीत्येवंशीलानि तैः शरचन्द्रभ्रमापादकैः / उज्ज्वलैः-शुभैः / यस्य-श्रीषेगस्य यशोभिः-वर्णवादैः / विनिर्जित:-पराजितः, वासुकेरपेक्षयाऽपि तद्यशसो धवलत्वादितिभावः / भुजङ्गमानांसर्पाणां / अधिपः-अधिपतिः वासुकिः / “वासुकिस्तु सर्पराजः” इतिहैमः / त्रपया-लज्ज या / इव-नूनं निश्चितं / रसातलं-पातालं / प्रविश्य-गत्वा / तस्थिवान्- तस्थौ / पराजितो हि लज्जया स्वं गोपायतीति भावः / यदुक्तं-"सतां माने म्लाने मरणमथवा दूरगमनमिति // अत्र त्रपयेवेति शब्देन हेतूप्रेक्षा, सा च भुजङ्गमाधिपस्य यशसा निर्जितत्वाभावेऽपि तदुक्तिरूपातिशयोक्तिजीविता / / 58 // अथ तस्य शासननैपुण्यमाह-चतुरितिचतुष्पयोनिध्यवधिक्षितीश्वरैः, प्रणम्यमानस्य सदैव देववत् / श्रुतेक्षिता यस्य विभोरजायत, क्षमासमासङ्गवशादिव क्षमा // 59 // व्याख्या-चतुष्पयोनिध्यवधि:-चत्वारश्च ते पयोनिधयः चतुष्पयोनिधयः, व एंव अवधिः / सीमा यस्याः / क्षितीश्वर:-क्षितेः पृथिव्याः तदीश्वरैः राजभिः, स्वाधीन, समुंद्रपर्यन्तपृथिव्यन्तर्गतराज