________________ [ 31] "अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः। स्वचक्रं परचक्रं च सप्तता ईतयः स्मृताः,"इति च / तथा अनन्तलक्ष्मीपुखोचमालये-अनन्ताः या लक्ष्म्यः सम्पदः पुरुषोत्तमाः पुरुषश्रेष्ठाश्च तेषामालयः स्थानम् तस्मिन् , अथवा-अनन्ता लक्ष्म्यः येषां तादृशाः ये पुरुषोत्तमास्तेषामालये / यत्र-रत्नपुरे / स-लक्ष्मीजनकत्वेन प्रसिद्धः / पयोनिधि:समुद्रः / स्वपुत्रिकाप्रेमवशम्बदः-स्वस्य निजस्य या पुत्रिका दुहिता तस्यां यत्प्रेम स्नेहः "प्रेमा ना प्रियता हार्द प्रेम स्नेहः” इत्यमरः / तस्य वशंवदोऽधीनः स्वकन्यास्नेहाधीनः सन् / खातिका-परिखा, तस्याः / मिषात्-व्याजाद / अवसव-निवसतिस्म / गृहे गृहे धनधान्यसमृद्धिः, सर्वे जनाश्चोत्तमप्रकृतयः तन्नगरपरिखा च समुद्रवदगम्या दुस्तरा चेत्यर्थः / अत्रापि परिखामपहृत्याऽन्यस्याप्रकृतस्य समुद्रस्य व्यवस्थापनादपहृत्यलङ्कारः। स च लक्ष्मीति श्लेषानुप्राणित इति द्वयोः सङ्करः / “परिखा खेयखातिके” इति हैमः // 52 // ___ अथ तत्रत्यान् गजान् वर्णयति-मतङ्गजानितिमतङ्गजानञ्जनपर्वतायतान, सलीलयातानि पथि प्रकुर्वतः / निरीक्ष्य यत्रेति विजानते जना,न सन्ति नान्यत्र भवन्ति चैतके // 53 // व्याख्या-यत्र-यस्मिन् रत्नपुरे / जना:-लोकाः। अञ्जनपर्वतायतान्-अञ्जनाख्यो यः पर्वतः, अञ्जनगिरिः तद्वदायतान् दीर्घान् विशालान् वा द्वयोरेव कालत्वादन्यपर्वतानुपेक्ष्याञ्जनपर्वतेनैव साम्यमुक्तम् , अञ्जनशैलविशालान् / पथि-मार्गे। सलीलयातानि-लीलया सहितं सलील सविलासं यानि यातानि गमनानि तानि / प्रकुर्वत:..विदधतः / मतगजान्-हस्तिनः “मतङ्गजो गजो नागः, कुञ्जरो वारणः करी” त्यमरः / निरीक्ष्य-विलोक्य / एते एव एतके-स्वार्थे, तद्धितोऽकप्रत्ययः, एतादृशा इत्यर्थः / अन्यत्र-रत्नपुरादन्यस्मिन् स्थाने / न-नैव / सन्ति-वर्तन्ते / न-नैव / भवन्ति-उत्पद्यन्ते / च इति-इत्थं / विजानते-मन्वते / अन्यथाऽन्यत्राप्येतादृशा हस्तिनः कुतो न दृश्यन्ते इति भावः / अत्र लुप्तोपमाऽलङ्कारः तेन च सर्वेभ्योऽप्युत्कृष्टा अन्नत्या गजा इति उपमानेतरगजापेक्षयोपमेयस्यात्रत्यगजस्याधिक्यलाभाद् व्यतिरेको ध्वन्यते // 53 // अथ तत्रत्यपताकाः वर्णयति-ध्वजांशुकैरितिध्वजांशुकैः शारदसारकौमुदी, समप्रभैः शर्मविसारिसम्पदा / अधिष्ठितं यच्च विमानतायिनां, पुरं सुराणां हसतीव संमदात् // 54 // व्याख्या-यच--यह रत्नपुरं, चो-वाक्यालङ्कारे / शर्म-सुखम् “शर्मसातसुखानि चे” त्यमरः / तस्य विसारिणी विस्तारिणी या सम्पद् समृद्धिः तया / अधिष्ठितं व्याप्तं सत् / शारदसारकौमुदी-शरदि भवा शारदी, शरतूत्पन्ना, सारा प्रधाना श्रेष्ठा च या कौमुदी चन्द्रिका / समप्रभैः-तत्समा तत्तुल्या, प्रभा