________________ व्याख्या:-यदीयसौधोपरि - यस्य इमे यदीया रत्नपुरीया ये सौधाः प्रासादास्तेषामुपरि ऊर्ध्वदेशे। मृदुमास्ताहता:-मृदुना मन्देन मारुतेन पवनेनाहताः कम्पिताः अत एव बन्धुरा:-स्वभावादुन्नता वायुसम्बन्धादीषन्नता:, “बन्धुरं तून्नतानतम्” इति हैमः / शोभनाः दर्शनीया इति यावत् / पुरश्रिया-पुरस्य नगर-त्रिया सम्पदा / वद्धितमानसम्पदः-वर्धिता वृद्धिं नीता मानस्य परिमाणस्य सम्मानस्य च सम्पद् यासां तास्तादृश्यः / इमा-बुद्धिस्थतया स्पष्टं लक्ष्यमाणाः / वैजयन्त्यः-पताका: 'वैजयन्ती पुनः केतु' रिति हैम: | दिवं-स्वर्ग। समाह्वातुम्-स्पर्धया समाकारयितुमिव / अधिकोच्छया:अधिकमुच्छ्रयः औन्नत्यं यासां ता अत्युन्नता / न ? अपि तु समाह्वातुमेवात्युन्नता इत्यर्थः / अत्र समाह्वातुमिवेति क्रियोत्प्रेक्षा // 50 // अथ तन्नगरप्राकारं वर्णयति–निजेश्वरेतिनिजेश्वरश्रीपतिनामशङ्कया, निषेवते यत्किल भोगिनां पतिः / सुधीभवन कुण्डलशायितां दधत्,समुज्ज्वलस्फाटिकवप्रदम्भतः // 51 // व्याख्या-निजेश्वरश्रीपतिनामशङ्कया-निजस्य स्वस्य ईश्वरः स्वामी यः श्रीपतिः विष्णुः तत्रत्यानां जनानां धनिकत्वेन श्रीपतिशब्दवाच्यत्वादिति भावः / तस्य नाम तेन या शङ्का सन्देहः तया, अत्रत्यो जनः श्रीपतिर्विष्णुरित्येवं भ्रमेण / भोगिनां पति:-भोगिनां सर्पाणां पतिः प्रभुः शेषः “शेषो नागाधिपः" इति हैमः / सुधीभवन्-सुधा अस्ति अस्य इति सुधी, सुधयालिप्तत्वाद् वप्राणाम् अमृतपायित्वाद् गौरवर्णत्वाञ्च शेषस्य, न सुधी सुधी भवतीति सुधीभवन् / कुण्डलशायितां-कुण्डलाकारेण शेते इत्येवंशीलः कुण्डलशायी, तस्य भावस्तत्ताम्, वप्राणां कुण्डलाकारेण स्थितत्वात् सर्पाणां कुण्डलित्वप्रसिद्धेश्च / दधद्-धारयन् / समुज्ज्वलस्फाटिकवपदम्मत:-समुज्ज्वला भासमाना ये स्फटिकरय विकाराः स्फाटिकाः स्फटिकनिर्मिता वप्राः प्राकाराः तेषां दम्भतश्छलतः / यद्रनपुरं निषेवते-भजते / क्लेित्यलीके / अत्र सुधीभवन्नित्यादिश्लेषानुप्राणिता वप्रदम्भत इत्यपद्भुतिरलङ्कारः / तल्लक्षणं यथा-"प्रकृतं प्रतिषिध्यान्यस्थापनं स्यादपह्नुतिः” इति / अत्र च प्रकृतवप्रमपगुत्य भोगिनां पत्युरन्यस्य व्यवस्थापनं स्पष्टमेव // 51 // . अथ खातिकामेव प्रकारान्तरेण वर्णयति-अनन्तेतिअनन्तलक्ष्मीपुरुषोत्तमालये, निरीतिभावप्रसरन्महोत्सवे / पयोनिधिर्यत्र स खातिकामिषात् , स्वपुत्रिकाप्रेमवशम्वदोऽवसत् // 52 // व्याख्या-निरीतिभावप्रसरन्महोत्सवे-ईतिभ्यो निर्गता निरीतिस्तस्य भावस्तेन प्रसरन्तः महोत्सवा यत्र तत्तस्मिन् उत्पाताभावाद्विलसन्महोत्सवे "अजन्यमितिरुत्पात" इति हैमः; “मह उत्सव उद्धव” इति चामरः,