________________ [ 29 ] अथ तत्रत्यापणं वर्णयति-क्रयाणकमितिक्रयाणकं भूवलये तदस्ति नो, न यद्यदट्टेषु विलोक्यते जनैः / भवन्ति तेजांसि विभाकरे न चेत्, परः समीक्ष्यः क तदा तदाकरः // 48 // __ व्याख्या-भूवलये-मुवः पृथिव्याः वलये मण्डले भूतले इति तावत् / तत्-तादृशं / क्रयाणकक्रय्यं / नो-न / अस्ति, यद्-यादृशं / यदद्देषु-यस्य रत्नपुरीय अट्टेषु हटेषु "अट्टो हट्टो विपणिरापण" इति हैमः / जनैः-लोकैन विलोक्यते-दृश्यते / युक्तश्चैतत् , तदाह / तेजांसि-प्रभाः। विभाकरे- सूर्ये / चेद्-यदि / न भवन्ति,तदा-तेषांतेजसाम् / आकर:-निधिः। परोऽन्य' / क-कुत्र / समीक्ष्यो-ऽवलोक्यः / न कुत्रापीत्यर्थः / तेजसामाकरत्वेन तस्यैव प्रसिद्धत्वादिति भावः / यथा तेजसामाकरः सूर्यस्तथा क्रयाणकाणामाकरः रत्नपुरमिति ध्वनिः / एवञ्च सद्धर्मवस्तुनः प्रतिबिम्बनाद् दृष्टान्ताऽलंकारः / तल्लक्षणं यथा"दृष्टान्तस्तु सधर्मस्य वस्तुनः प्रतिबिम्बनम्" इति / अर्थान्तरन्यासस्तु नात्र तस्य सामान्यविशेषयोरुपादाने एव सत्त्वाव , न तु द्वयोर्विशेषयोः, अत्र च सूर्यस्य रत्नपुरस्य च विशेषस्यैव साधर्म्यण प्रतिबिम्बनाद // 48 // अथ तदापणस्थरत्नानि वर्णयति-प्रसारितमितिप्रसारितं रत्नभरं यदापणे निरीक्ष्य कान्तिप्रसरैः परिष्कृतम् / स रोहणक्षोणिधरोऽपि संभ्रमाच्छिलाऽवशेषः परिभाव्यते परम् // 49 // व्याख्या-यदापणे-यस्य रत्नपुरस्य आपणे हट्टे / प्रसारितम्-विस्तार्य स्थापितम् "पण्यशाला निषद्याऽटो हट्टो विपणिरापण;" इति हैमः। कान्तिप्रसरैः कान्तीनां प्रभाणां प्रसरैः समूहैः कृत्वा / परिष्कृतम्-परीतम् व्याप्तमित्यर्थः / “परिष्कृतम् परीतम्" इति हैम: / रत्नभरं- रत्नानां मणीनां भरं समूह रत्नसम्पदम् / निरीक्ष्य-विलोक्य / स-रत्नोत्पत्तिस्थानत्वेन प्रसिद्धम् / रोहणो-रोहणाख्यः / चोणिधरः-महीधरोऽपि / सम्भ्रमाद्-आवेगालजया वा। . परं-- केवलम् / शिलाऽवशेष:-शिला एव अवशेषो यस्य स तादृशः प्रस्तरमात्रावशिष्टः / पग्भिाव्यते-अनुभूयते, अन्योऽपि हि सम्भ्रान्तो दौस्थ्यमापद्यते इति भावः। अत्र रोहणाचलस्य रत्नभरनिरीक्षणसम्बन्धस्य सम्भ्रमात् प्रस्तरमात्रावशिष्टत्वसम्बन्धस्य चाचेतनत्वेनासंभवादसम्बन्धे सम्बन्धरूपाऽतिशयोक्तिः // 49 // अथ तत्रत्यसौधस्थितवैजयन्ती वर्णयति-न वैजयन्त्य इतिन वैजयन्त्यो मृदुमारुताहता, यदीयसौधोपरि बन्धुरा इमाः। पुरश्रिया वर्द्धितमानसंपदो, दिवं समाह्वातुमिवाधिकोच्छ्याः // 50 //