________________ [28] कुर्वन्ति / महर्षयो निरीहा निष्कामाश्च, गजाश्च साधुशिक्षितास्तत्रेत्यर्थः / अत्र विशिष्टगुवकुशशङ्कितान्तरा इत्यस्य पदार्थस्य विशेषणगत्या नेच्छन्ति इत्यत्र न संसजन्ति इत्यत्र च हेतुत्वावगमात् काव्यलिंगमलङ्कारः। तल्लक्षणं यथा-"हेतोर्वाक्थपदार्थत्वे काव्यलिङ्गं निगद्यते” इति / तदनुप्राणिता चोपमेति द्वयोः सङ्करः // 45 // अथ तत्रत्यचैत्यानि वर्णयति-सुवर्णकुम्मा इतिसुवर्णकुम्भा भविकैर्निवेशिता, विभान्ति यत्रार्जुनचैत्यसानुषु / नभःस्रवन्त्या इव चक्रवाककाः, सुवर्णपाथोरुहनिश्चलासनाः // 46 // व्याख्या-यत्र-रत्नपुरे। अर्जुनचैत्यसानुषु-'धवलोऽर्जुन' इत्यमरोक्तेः / अर्जुनानि धवलानि यानि चैत्यानि जिनप्रासादाः "चैत्यविहारौ जिनसद्मनि" इति हैमः / तेषां सानुषु शिखरेषु / भविक :-- भव्यात्मभिः / निवेशिताः-स्थापिताः / सुवर्णकुम्भाः-सुवर्णस्य कनकस्य कुम्भाः कलशाः / नभःस्रवन्त्याःगंगानद्याः “स्रवन्ती'निम्नगाऽऽपगा" इत्यमरः / 'स्वर्गि-खापगा' इति हैमश्च / सुवर्णपाथोल्हनिश्चलासना:सुवर्णस्य पाथोरुहेषु कमलेषु सुवर्णानि-सुष्ठु वर्णवन्ति कमलान्येव वा निश्चलानि स्थिराणि आसनानि येषां ते तथोक्ताः / शिखरे सुवर्णकमलानि निर्माय कुम्भस्थापनादियमुत्प्रेक्षा / चक्रवाकका:-कोका इव "कोकश्चक्रश्चक्रवाक" इत्यमरः। विभान्ति-शोभन्ते। अत्राकाशगङ्गासुवर्णकमलस्थकोकासंभवात् तदात्मनोप्रेक्षणादुत्प्रेक्षाऽलंकारः // 46 // अथ तत्रत्यखातं वर्णयति-रसातलमिति - रसातलं यस्य गभीरखातिका, - प्रसक्तमाजीवनमार्पयन्निजम् / न किं प्रयच्छन्ति निबद्धमानसा, मनस्विनीषु प्रसभं मनस्विनः // 47 // व्याख्या-यस्य-रत्नपुरनगरस्य / गभीरखातिकाप्रसक्तम्-गभीरा निम्ना "निम्नं गभीरं गंभीरमि"त्यमरः / या खातिका परिखा तत्र प्रसक्तं समासक्तं / रसातलं-रसायाः पृथिव्यास्तलं पातालं / निजंस्वीयम् / आजीवनम्-जीवनं जलमित्यर्थः / आर्पयत-प्रादात् / युक्तञ्चतत् तदाह / मनस्विनीषु-स्त्रीषु / निबद्धमानसा:-निबद्धं संसक्तं मनश्चित्तं येषां ते तादृशाः अनुरक्ताः। मनस्विनः प्रसभं-हठाव आजीवनमित्यनुषज्यते। किं न प्रयच्छन्ति–ददति, अपि तु सर्वस्वमेव प्रयच्छन्ति, अतः खातिकाप्रसक्तरसातलस्य जीवनदानं न विरुद्धयते इत्यर्थः / अत्र जीवनमिति श्लेषः। तत्र रसातलस्य खातिकाप्रसक्तस्य जीवनार्पणरूपो विशेषः / मनस्विन्यनुरक्तमनस्विनां सर्वस्वदानरूपेण सामान्येन समर्थ्यते इति सामान्येन विशेषस्य समर्थनरूपोऽर्थान्तरन्यासोऽलङ्कारः। तत्रापातालगभीरा परिखा, जलेन परिपूर्णा चेति निर्गलितार्थो बोयः // 4 //