________________ [ 27 ] भीमरूपा:-भयानकाः। न-नैव, शान्ताकारत्वात् / कदापीत्यस्याप्रेऽपि सम्बन्धः। शूलिन:-शूलाख्यात्रवन्तः / पक्षे शूलरोगवन्तः न / तथा ये, पशुस्वामितया-पशुपतित्वेन / प्रकीर्तिताः-ख्याता न / पशुपतयोऽपि तान् पशून भाट्यर्थ न रक्षन्तीत्यर्थः / अत्र भूतगणाधिनायका अपि भीमरूपा नेत्यादिना विरोधः, पक्षान्तराश्रयणेन च तत्परिहारः / एवञ्चात्र विरोधालङ्कारः / तल्लक्षणं यथा-"विरुद्धमिव भासेत विरोधोऽसौ" इति // 4 // अथ पूर्ववर्णितं पुनः समुदितमेव वर्णयति-धनानीतिधनानि यस्मिन् धनिनां महीयसां, पयांसि यस्मिन् सरसां प्रथीयसाम् / फलानि यस्मिन् विपुलानि भूरुहां, परोपकाराय भवन्ति सन्ततम् // 44 // .. व्याख्या-यस्मिन्-यत्र रत्नपुरे। महीयसामतिमहतां / धनिनां-धनिकानामिभ्यानां / धनानि, तथा यस्मिन् प्रथीयसामतिविस्तृतानां / सरसां-तडागानां / पयांसि-जलानि / तथा यस्मिन् भूरुहांद्रुमाणां / विपुलानि-प्रचुराणि / फलानि सन्ततमनिशं / परोपकाराय-परहिताय / भवन्ति-सन्ति जायन्ते वा, न तु. स्वार्थमात्रसाधनाय / तथा च वृक्षादिवत् धनिनोऽपि परोपकारायैव धनानि संगृह्णन्ति, इति भावः। अत्र वर्ण्यरत्नपुराणतया वर्णनीयत्वेन प्रकृतानां धनि-सरो-भूरुहां परोपकाररूपैकधर्माभिसम्बन्वेन तल्ययोगिताऽलझरः // 44|| ___ अथ महर्षीन् गजाँश्च वर्णयति-न पिण्डमितिन पिण्डमिच्छन्त्यपि चाटुकोटिभि,-न संसजन्ति स्ववशां वशां नये / विशिष्टगुर्वङ्कशशङ्कितान्तरा, महर्षयो यत्र मतङ्गजा इव // 45 // ____ व्याख्या-यत्र-यस्मिन् रत्नपुरे। विशिष्टगुर्वकशशङ्कितान्तरा:-विशिष्टो विलक्षणो यो गुरुः उपदेष्टा अमोघोपदेशको गुरुः, तस्य अङ्कुशेन कुमार्गप्रवृत्तिप्रतिबन्धकशासनेन कृत्वा शङ्कितं भीतमन्तरमन्तःकरणं येषां ते तादृशाः, अनुपकृतोपकारिणा गुरुणा भवोहिधीर्षयाऽऽगमोक्तमर्यादयाऽनुशासिता इत्यर्थः / पक्षे विलक्षणविशालाङ्कुशभीतात्मानः “अङ्कुशोऽस्त्री सृणिः स्त्रियामि" त्यमरः / महर्षयः-दानभक्तेषणारक्ता दान्ता मुनयः / मतङ्गजाः-हस्तिनः इव, चाटुकोटिमि:-प्रियवचनकोटिभिरपि पिण्ड-भक्त, पक्षे प्रासं, नेच्छन्ति-:: स्वेच्छया नाभिलषन्ति, अनेकप्रियवचनकथनेऽपि निरीहतयाऽशनादिभक्तं मुनयो नेच्छन्ति, अथवा स्वयमेव प्रियवचनान्युक्त्वा पिण्ड नेच्छन्ति / गजा अपि हि पुरा ग्रासग्रहणे अशाघातानुभवाव भीताः .. हस्तिपकेन कदाचित् प्रियवचनकथनेऽपि स्वेच्छया प्रासं न गृहन्तीति लोकप्रसिद्धम् / “चटु चाटुप्रियप्रायम्" : इति, “प्रासो गुडेरकः पिण्डः" इति च हैमः / तथा नये नीतौ वर्तमाना इति शेषः / स्ववशां-स्वाधीनामपि वशां खियं करिणीश्च / 'वशा स्त्री करिणी च स्यादि' त्यमरः / न-नैव / संसजन्ति-आसक्तिविषयां,