________________ . [ 25 ] व्याख्या-तस्य-भरतक्षेत्रस्य / किलेति वाक्यालङ्कारे। याम्ये दले-दक्षिणे विभागे, दक्षिणमरते / महो-पृथिव्येव / महेला-योषित् तस्या / आस्य-मुखम् / तस्य तमालपत्रकम्-तिलकरूपम् / "तमालपत्रतिलकचित्रकाणि विशेषकम्” इत्यमरः / तथा त्रिविष्टपस्य स्वर्गस्य या श्रीः संपत् तस्याः / प्रतिबिम्बस्य छायायाः या भावना विचारस्तस्यानुमापकम् अनुगमकम् / तत्रत्यसम्पदं दृष्ट्वा स्वर्गेऽप्येवमेव सा स्यादित्येवमनुमिन्वन्ति जना इति भावः / एतेन विच्छित्त्या रत्नपुरस्वर्गसम्पदोः साम्यमुक्तम् / विश्रत-प्रसिद्धम् / महापुरं-विशालनगरं / रत्नपुरं-नामाऽस्ति-वर्तते / अत्र रूपकोपमयोरेकाश्रये रत्नपुरेऽनुप्रवेशादेकाश्रयाऽनुप्रवेशरूपः सङ्करः // 39 // अथ तत्रत्यानि सरांसि वर्णयति-सरांसीदिसरांसि यस्मिन् समवेक्ष्य मन्वते, न मानसं हंससमाश्रयं जनाः / कदापि लोकायतिका इंवायतं, प्रभूतशक्तयाऽभ्युपगम्य विग्रहम् // 40 // व्याख्या-यस्मिन्–रत्नपुरे / सरांसि-कासारान् “कासारः सरसी सरः" इत्यमरः / समवेक्ष्यविलोक्य / जना:-लोकाः / कदापि-कदाचित् / प्रभूतशक्त्या-प्रभूतानां पृथिव्यप्तेजोवाय्वाकाशात्मकपञ्चभूतानां शक्त्या सामर्थेन / आयत-नियन्त्रितं / विग्रह-शरीरमभ्युपगम्य-स्वीकृत्य / लोकायतिकाश्वर्वाकाः / इव मानसं-तदाख्यसरोवरं, पक्षे "हृन्मानसं मनः” इत्यमरवचनाद् मनः / / हंसस्य तदाख्यपक्षिविशेषस्य, पक्षे आत्मनः / समाश्रयं-नियतस्थानं / न-नैव / मन्वते-खोकुर्वन्ति / अयं भावः यथालौकायतिकाः पञ्चभूतशक्तिरेव चैतन्यम्, गुडतण्डुलादिभ्यो मिश्रितेभ्यो मदशक्तिवत्, पञ्चभूतेभ्यः एव मिलितेभ्यश्चैतन्यशक्तिरुत्पद्यते / नत्वात्मा कश्चिदतिरिक्तश्चेतनः मानसप्रत्यक्षविषयः, तथा जनाः रत्नपुरीयतडागं दृष्ट्रा स एव हंससमाश्रयः, न तु मानसाऽख्यः, कश्चित सरोवरः हंससमाश्रयः इति मन्वते, प्रचुरतरहंससमाश्रितानि रत्नपुरसरांसि इति भावः / यथा हंससमाश्रयस्य मानसरोवरस्यातिरिक्तस्य सत्त्वम् , तथाऽऽत्मन इति भङ्गथा सूचितम् / अत्रोपमाऽलङ्कारः श्लेषानुप्राणितः // 40 // अथोपवनं वर्णयति-सदेतिसदाफलानोकहराजिराजितान्युदस्तसन्तापभराणि दैशिकाः / विलोक्य यत्रोपवनानि नन्दनं, न चाद्रियन्ते धृतकल्पपादपम् // 41 // व्याख्या-यत्र-पुरे / दैशिका:-तद्देशोद्भवाः / सदाफलानोकहराजिराजितानि--सदाफलानि येषां ते च अमी "अनोकहा वृक्षाः” “अंहिपः शालाऽनोकहे"ति हैमः / सर्वकालफलयुक्तवृक्षाः तेषां राजयः