________________ [24] जम्बूद्वीपमिति भावः / अत्रोपमाऽलङ्कारः, स चाऽचलानूनवृत्ततार्षवाक्षमाभृशब्दश्लेषानुप्राणितेति तयोः सङ्करः // 35 // 36 // अथ भरतक्षेत्रं वर्णयति-तदन्त इति-- तदन्तरस्त्यर्धशशाङ्कसन्निभं, सदादिमं क्षेत्रमकृत्रिमाकृति / अभिख्यया तद्भरतं प्रथामगादभिख्ययेव प्रथमस्य चक्रिणः // 37 // व्याख्या-तदन्तः-तस्य जम्बूद्वीपस्य, अन्तर्मध्ये / आदिमम-प्रथमम् , सप्तक्षेत्रेषु तदेवादिममिति शास्त्रम् / क्रियया निर्वृत्ता कृत्रिमा, न कृत्रिमा अकृत्रिमा प्राकृतिकी शाश्वतिकी / आकृतिः-स्वरूपं यस्य तव प्रकृतिसिद्धस्वरूपम् / तथा अर्धशशाङ्कसन्निभम्-शशाङ्कस्य चन्द्रस्यार्धमर्धशशाङ्कः तत्सन्निभमर्धचन्द्राकारम् / सत्-श्रेष्ठं प्रशस्तं / क्षेत्रम् अस्ति तत्-क्षेत्रम् / प्रथमस्य-आदिमस्य / चक्रिणः-चक्रवर्तिनृपस्य भरतस्य / अभिरख्यया-नाम्ना / इव अभिरख्ययाऽभिधेयेन / भरतं-भरतमिति / प्रथाम्-प्रसिद्धिमगाव-प्रापद / अत्रोपमोत्प्रेक्षयोः संसृष्टिरलङ्कारः / तल्लक्षणं यथा-"मिथोऽनपेक्षयैव तेषां स्थितिः संसृष्टिरुच्यते” इति / अत्र चार्धशशाङ्कसन्निभेत्युपमायाः अभिख्ययेवेत्युत्प्रेक्षायाश्च न कापि परस्परमपेक्षेति स्पष्टमेव // 37 // अथ स्वाभीष्टपुरं विवर्णयिषुः प्रथमं भरतक्षेत्रस्य भागद्वयं प्रदर्शयति-प्रभाट्येतिप्रभाब्यवैताब्यमहीभृता द्विधा, कृतं च पूर्वापरसिन्धुगामिनाः / जिनेन्द्रचैत्याश्रयणादिवोचतां, प्रबिभ्रता दक्षिणमुत्तरं च तत् // 38 // व्याख्या-पूर्वापरसिन्धुगामिनापूर्वश्वापरश्चेतिपूर्वापरौ,पूर्वभागपश्चिमभागस्थौ,तौ च तौ सिन्धू सागरौ च,तो गन्तुं प्राप्तुं शीलमस्येति स तेन तथोक्तेन पूर्वापरदिग्वतिलवणसमुद्रस्पर्शिनेत्यर्थः / तावदायतत्वादिति भावः / एतेन द्विधाकरणे बीजमुक्तम् / जिनेन्द्रचैत्याश्रयणात्-जिनेन्द्राणां जिनेश्वराणां चैत्यानां प्रासादानामाश्रयणाद्धारणादिव उच्चतामौनत्यं / प्रविभ्रता-धारयता / एतेन जिनेन्द्रचैत्यसेविनामवश्यमभ्युदय इति सूच्यते / प्रभाढ्यवैताट्यमहीभृता-प्रभया कान्त्या आढ्यः पुष्टः स चासौ वैताढ्यनामा महीभृत् पर्वतः, तेन / दक्षिणम्-इदं दक्षिणभरतक्षेत्रम् / उत्तरम्-इदमुत्तरभरतक्षेत्रश्चेत्येवम् / द्विधाकृतं-विभक्तं / तद्-भरतक्षेत्रमस्तीति शेषः / अत्र स्वयमुन्नतस्य वैताढ्यपर्वतस्य जिनेन्द्रचैत्याश्रयणादित्यौन्नत्ये सहेतुकत्वमुत्रेश्यते // 38 // अथ स्वाभीष्टपुरं षोडशभिर्वर्णयति-दलेऽस्तीतिदलेऽस्ति याम्ये किल तस्य विश्रुतं महीमहेलाऽऽस्यतमालपत्रकम् / त्रिविष्टपश्रीप्रतिबिम्बभावनाऽनुमापकं रत्नपुरं महापुरम् // 39 //