________________ [23] पङ्कः 'मूढो मन्दो यथाजातो बालो मातृमुखो जड' इति 'जम्बाले चिकिलः पङ्क' इत्युभयत्रापि हैमः / तस्य निरासने दूरीकरणे अमृतं जलमिव “पयः कीलालममृतमि” त्यमरः / यथाहि पादादिसंलग्नः पङ्कः जलेन दूरीभवति तथा / तच्चरित्रश्रवणेनेत्यर्थः / जिनेशशान्त:-जिनेशश्चासौ शान्तिश्च स तस्य श्रीशान्तिनाथजिनेश्वरस्य चरितं-चरित्रं / यथामति-मतिमनतिवृत्त्य, स्वबुद्धथनुसारेण / कीर्त्यते-ख्याप्यते कथ्यते वा, एवञ्च लोकोपकृतिरेवात्र मुख्यं प्रयोजनम् , न तु स्वयश इति सूचितम् / अत्र चरित्रस्य तादृशेनामृतेन रूपणादेव कुकर्मणो हालाहलत्वेन जडत्वस्य च जम्बालत्वेन रूपणमिति परम्परितरूपकाऽलङ्कारः // 34 // अथ कथां प्रस्तुवन् जम्बूद्वीपं युग्मेन वर्णयति-तथाहीतितथाहि जम्बूपपदं विशालतां, दधानमारामवदुन्नताचलम् / समस्ति सद्दीपमनूनवृत्तता, - समाश्रयं मानसवन्मनस्विनाम् // 35 // जिनेन्द्रवद्योजनलक्षमानतां, दधत् क्षमाभूद्भिरितस्ततः श्रितम् / समृद्धवर्षानुगतं पयोदवत् , समुद्रवद् द्वीपवतीभिरश्चितम् // 36 // व्याख्या-तथाहीति कथाप्रस्तावे। आरामवद्-आराम उपवनम् "आरामः स्यादुपवनं, कृत्रिमं वनमेव यत्" इत्यमरः। तद्वत् उन्नता-अत्युच्चा। अचला:-पर्वताः “उच्चप्रांशून्नतोदप्रेति, "अचलशैलशिलोच्चयाः", इति चामरः / पक्षे वृक्षाश्च यत्र तत् अत्युन्नतगिरितरुवरादियुक्तमियर्थः / मनस्विनां-प्रशस्तमनसां / मानसवद्-मानसं चेतः तद्वत् / अनूना-महती या वृत्तता-वर्तुलाकारता तस्याः, पक्षे अनूना अखण्डा वृत्तता चारित्राचारता 'वर्तुलं तु वृत्त' मिति / 'चारित्रचरित्रे अपि, वृत्तं शीलं चे' ति हैमः / तस्याः समाश्रयं-सम्यक् प्रकारेणाश्रयः आश्रयणं यत्र तत्तादृशं, वर्तुलाकारं गोलाकारं वा / योजनलक्षमानतांयोजनानां लक्षं लक्षसंख्या तयुक्तं मानं परिमाणं तस्य भावस्तत्ता तां योजनलक्षपरिमाणं, पक्षे योजनानि योगास्तेषां लक्षमानं लक्षणयाऽसङ्ख्यप्रमाणं योजनलक्षमानं, तदेव योजनलक्षमानता, तां दर्धादव दधत् क्षमाभृद्भिः क्षमां पृथ्वी क्षान्ति च, 'क्षितिक्षान्त्योः क्षमे' त्यमरः / बिभ्रतीति-क्षमाभृतः पर्वताः मुनयश्च तैः / इतस्ततः-समन्तात् / जिनेन्द्रवत्-जिनेश्वरवत् / श्रितम्-वेष्टितम् / पयोदवत्-पयोदो मेवस्तद्वत् / समृद्धवर्षानुगतम्-समृद्धं सश्रीकं प्रचुरतरश्च यद्वर्ष, भरतादिसप्तक्षेत्रम् वृष्टिश्च, 'स्याद् वृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रिया' मित्यमरः / 'वृष्टिवर्ष' मिति चामरः / तेन अनुगतमन्वितम् / जम्बूद्वीपे सप्तवर्षाणि इति शास्त्रम् / तथा समुद्रवदीपवतीभिरश्चितम्-समुद्रो जलधिस्तद्वद्, द्वीपवतीभिः नदीभिः / 'द्वीपवती, स्रवन्ती निम्नगाऽऽपगे' त्यमरः / अश्चितम् युक्तम् / विशालतां-पृथुतां / दधानं-दधत् / जम्बूपपदं-जम्बूः जम्बूशब्द उपपदं यस्य तत् / सद्द्वीपं-समीचीनं द्वीपं जम्बूद्वीपमित्यर्थः / समस्ति-वर्तते, प्राकृतिकशोभासम्पन्नं