________________ [ 22 ] ज्योत्स्नाप्रियाणां पक्षिविशेषाणां चक्रं समूहं / प्रमोदयेत-प्रहर्षयेत् / चकोराणां चन्द्रिकापानस्य कविसमयसिद्धत्वादिति भावः / चक्रमण्डलं-चक्राणां चक्रवाकानां मण्डलं समूहं / न च-न हि प्रमोदयेव,रात्रौ हि चक्रवाकमिथुनानां भिन्नताश्रयणं कविसमयसिद्धम् / एवञ्च विरहहेतुत्वाञ्चन्द्रो न तेषां मोदायेति भावः / अत्र विशेषेण चन्द्रस्य चकोरप्रियत्व-चक्रवाकाप्रियत्वरूपवचनेन जनसामान्ये सर्वप्रियङ्करत्वाभावस्य समर्थनात सामान्यस्य विशेषेण समर्थनरूपोऽर्थान्तरन्यासो नामालङ्कारः // 32 // नन्वेवमिष्टापत्त्या किमर्थमयं तवारम्भस्तत्राह-भवन्तीतिभवन्ति पापानि नृणां न साम्प्रतं, चिरन्तनानि प्रलयं व्रजन्त्यपि / पराणि विन्दन्त्युदयं न भावतश्चरित्रमात्रश्रवणादिहार्हताम् // 33 // व्याख्या-भावतः-भावनापूर्वकं श्रद्धाविश्वासाभ्यां मनः समाधायेत्यर्थः / अर्हताम्-जिनेन्द्राणां / चरित्रमात्रश्रवणात्-चरित्रमेव चरित्रमात्रम् , नत्वन्यत् तत्रापेक्ष्यते इति भावः / एतेन चरित्रनायकस्य महामहिमशालित्वं ब्यज्यते / तस्य श्रवणादाकर्णनाव लक्षणया श्रवणप्रयोजकपाठाद्यपि गृह्यते / इह-- अस्मिन् लोके / नृपा-नराणाम् / साम्प्रतम्--वर्तमानकाले / पापानि--दुरितानि / न भवन्ति,-अभिनवपापकर्मबन्धनानि न भवन्ति, तेन तनिरोधात्, एकान्तकर्मनिर्जराकारणत्वात् / तथा चिरन्तनानिचिरतरपूर्वकालोत्पन्नानि, पूर्वजन्मशतसहस्रोपार्जितानि पापानि / प्रलयं-विलयम् / व्रजन्त्यपि-गच्छन्त्यपि अपेरेवकारार्थत्वात् , भोगावस्थामप्राप्यैव क्षीयन्ते इति भावः। तथा पराणि--उक्तादन्यानि भविष्यदशुभकर्माणि / न-नैव उदयमुत्पत्तिं / विन्दन्ति-श्रवणप्रभावात् सज्ज्ञानोत्पत्तेः सत्प्रवृत्तिभावात्तदुत्पत्तेः प्रसराऽ-- भावादिति भावः। एवञ्च त्रैकालिकदुरितनाशकमहश्चरित्रश्रवणमित्यर्थः / एवञ्चैतादृशलोकविलक्षणफलजनकतया परमपुरुषार्थोपायमूतचरित्रकथने ममेष्टापत्तिर्गुणायैवेति भावः // 33 / / एवञ्चार्हत्सामान्यचरित्रश्रवणस्य, तादृशफलवत्त्वे तद्विशेषेऽपि तत्त्वमिति कृत्वा ममायं प्रयास इत्याह-अत इति - अतो मयाऽपि प्रयतेन कीर्त्यते, जिनेशशान्तेश्चरितं यथामति / जडत्वजम्बालनिरासनामृतं, कुकर्महालाहलनाशनामृतम् // 34 // व्याख्या-अत:-अर्हचरित्रश्रवणस्य परमपुरुषार्थसाधनत्वात् / प्रयतेन-सावधानेन सप्रयासेन च / मयाऽपि, कुकर्महालाहलनाशनामृतम्-कुकर्म एव हालाहलं विषविशेषः तस्य नाशने अमृतममृततुल्यम् "पीयूषममृतं सुघे" त्यमरः / यथाहि अमृतपाने सति विषं निर्मूलं भवतीति न विषबाधा तथाऽत्रापि इत्यर्थः / एवञ्च जडत्वजम्बालनिरासनाऽमृतम्-ज्ञानावरणीयानां कर्मणामुदयाद् यज्जडत्वं मूर्खता तदेव जम्बालः