________________ [21] श्रीशान्तिनाथजिनेश्वरस्य / मनोहरं-मनसश्चेतसोहरम्, मनोऽनुरागजनकम् / चरितम्-चरित्रम् / प्रपञ्चत:-विस्तारतः साङ्गोपाङ्गमित्यर्थः / प्रकुर्वतः-निबध्नतः / इमौ-सद्य एव वर्णितौ सज्जनश्च दुर्जनश्च तौ / ममाऽपि प्रसीदताम्-तुष्यताम् , गुणग्रहणेनेति शेषः / सज्जनास्तु स्वभावतः दुर्जनाश्च प्रार्थनया प्रसह्य गुणमेव गृह्णन्त्वित्यर्थः // 30 // अथेदानीं स्वगौरवं परिहरति-मनसीतिमनस्यवस्थाप्यमहो: मनीषिभिः, कचित् प्रकाश्यं न रहस्यमादरात् / प्रकाश्यते यन्मयका कथञ्चन, प्रभोः प्रभावः स तु तस्य केवलम् // 31 // व्याख्या-मनीषिभिः-प्राज्ञैः। "ज्ञाः प्राज्ञपण्डित मनीषीति" हैमः / रहस्य-मन्त्रादिगोप्यं मर्म "गुझे रहस्यम्” इति हैमः / आदरात्-आदरपूर्वकम् / मनसि-चेतस्येवावस्थाप्यं-धर्त्तव्यम् / क्वचितकुत्रापि कदापि वा / न प्रकाश्यम्-मर्यंतच्चरित्रं कृतमिति न प्रकाशनीयम् / नन्वेवं तीनेन ग्रन्थकृततश्चरित्रं कथं प्रकटितमित्याशङ्कायां तन्निवृत्त्यर्थमाह / कथञ्चन-देवगुरुप्रसादादिना / मयका-मया / यत्प्रकाश्यतेप्रकटीक्रियते / स तु-प्रकाशस्तु / तस्य-चरित्रनायकस्य प्रभोः / केवलमहो-जगदाश्चर्यकरः / प्रभावोऽनुभावः / श्रीशान्तिप्रभोजगदाश्चर्यकरप्रभावादेवैतत्साध्यम्, न तु मम तत्र प्रयासस्य सामर्थ्यम्, तेन च न मम रहस्यभङ्गो दोषाय, एतादृशरहस्यप्रकटने तत्प्रभावस्यैव प्रयोजकत्वादिति भावः / एतेन च स्वगौरवमपि परिहृतम् / सतोऽपि स्वसामर्थ्यस्यागणनेन तत्प्रभावस्यैव प्रयोजकत्वोपगमात् // 31 // नन्वेवमार्जवेन तव स्वगौरवपरिहारेऽपि कदाचित्तव वचनीयत्वमपि संभाव्यते तदिष्टापत्त्या परिहरति-स कोऽपीतिस कोऽपि नैवास्ति गुणाद्भुतः कचित् ,यकोऽपि विश्वस्य भवेत् प्रियङ्करः। सुधाकरोऽप्यभ्युदितः प्रमोदयेत् चकोरचक्रं न च चक्रमण्डलम् // 32 // __ व्याख्या-क्वचिदपि-कुत्रापि / स क:-सः तादृशः / गुणादत:-गुणैः कृत्वा अद्भुतः अभूतपूर्वः गुणैराश्चर्यकरो वा "अद्भुतं चोद्याश्चर्ये” इति हैमः / नैव अस्ति, यक:-यः / विश्वस्यापि-सर्वस्यापि प्रियङ्करोऽस्तीति प्रियङ्करः-प्रियकर्ता / भवेव-स्यात् / एवञ्च केषाञ्चन कृने वचनीयत्वं स्वस्य न दोषाय, एतादृशस्य दोषस्य सर्वसाधारणत्वादिति भावः / ननु कुत एतत्त्वयोच्यते, तत्राह / सुधाकरोऽपि-सुधायाः आकरः खनिः अथवा सुधा अमृतमेव करो किरणो यस्य सः सुधानिधिरमृतांशुर्वा, एतेन तस्य सर्वप्रियत्वे बीजमुक्तम्, अमृतस्य सर्वाभिलाषविषयत्वात् / अभ्युदितः-उदितः सन् / चकोरचक्र-चकोराणां