________________ [20] स्यात्तथा / प्रवर्धमाना-उल्लसन्ती / खलता-खलस्य भावः, खस्य आकाशस्य लता वल्लरी च / कस्य-किं नामधेयस्य / सचेतसः-सहृदयस्य / विस्मयावहा-विस्मयस्याश्चर्यस्य आवहा प्रदात्री / न-अपि तु सर्वस्यैव विस्मयावहत्यर्थः / अत्र खलता खलता इवेति शब्दशक्तिमूलोपमा ध्वनिः / अत्रापि व्याजस्तुतिः, उक्तार्थस्य क्षमारहितः दुर्मना दुर्व्यापारः उच्छृङ्खलश्च खल इत्यर्थे पर्यवसानाद / व्याजस्तुतिलक्षणन्तु"निन्दास्तुतिभ्यां वाच्याभ्यां गम्यत्वे स्तुतिनिन्दयोः”, उक्ता व्याजस्तुतिः, इति / / 28 / / - अथ पुनरपि दुर्जनस्य व्याजस्तुतिमेव करोति-यथास्थितमिति- . यथास्थित दोषमुदीरयन्नयं, न साधुभावं भजतां कथं खलः ? यथार्थवादेन वदन्ति साधुतां, विधूतमात्सर्यभरा हि धीधनाः // 29 // व्याख्या-अयं-वर्ण्यत्वेन प्रस्तुतः / खल:-दुर्जनः, स्थितमनतिक्रम्य / यथास्थितं-वास्तविकम् , अस्थितमितिच्छेदेन चावारतविकम् , अलीकमित्यर्थः / दोष-दौर्गुण्यमुदीरयन्-कथयन् / साधुभावं-साधोः सज्जनस्य भावः, साधुतां / कथं-केन प्रकारेण / न भजताम्-अपि तु भजतामेव / ननु कस्माद्धेतोरेतदुच्यते तत्राह-हि-यतः / विधूतमात्सर्यभरा-विधूतः दूरीकृतः मात्सर्यस्य परोत्कर्षाऽसहिष्णुत्वस्य भरोऽतिशयः यैस्ते तादृशा निर्मत्सराः / धीधनं- येषां ते तादृशा बुद्धिमन्तः,यथार्थवादेन-अर्थमनतिक्रम्य वर्तत इति यथार्थ सत्यं तस्य वादेन कथनेन / साधुतां-सज्जनतां / वदन्ति-कथयन्ति / सज्जनतायां यथार्थवादो हेतुः, स चात्राऽप्यस्त्येवेति स साधुरेवेत्यर्थः / यद्वा नशब्देन समासे न साधुभावमसाधुतां कथं भजतामित्यर्थः / साधुर्हि यथास्थितवक्ता, अयञ्च तथेति न दुर्जनः असाधुरित्यर्थः / एतदर्थः स्तुतिपर्यवसायी / निन्दा दु यथास्थितमित्यत्राकारप्रश्लेषेण / तथाहि वास्तवस्य चावास्तवस्य च दोषस्य वक्ता असाधुरेव / साधुस्तु वास्तवदोषमात्रवक्ता यथास्थितगुणमात्रवक्ता वेति // 29 // ___ एवं सज्जनान् दुर्जनाँश्च प्रशस्य तौ अत्र गुणग्रहणावेव यथा स्यातां तथा तयोः प्रसादमाशास्ते प्रन्थकारः-ममापीति ममापि शान्तेश्चरितं मनोहरं, प्रकुर्वतः षोडशधर्मचक्रिणः / प्रपञ्चतः पञ्चमचक्रवर्तिनः, प्रसीदतां सजनदुर्जनाविमौ // 30 // व्याख्या-पोडशधर्मचक्रिणः-धर्मचक्रं-धर्म एव चक्रं धर्मचक्रं, यथा चक्रिचक्रमरिसमूहच्छेदकं तथाष्टकर्मारिच्छेदकं तदित्यर्थः / तद् यस्यास्तीति धर्मचक्री / यद्वा धर्मस्य चक्री चक्रवर्ती धर्मचक्री / षोडशश्वासौ धर्मचक्रीच षोडशधर्मचक्री तस्य षोडशतीर्थङ्करस्य / पञ्चमश्चासौ चक्रवर्ती चेति पञ्चमचक्रवर्ती / तस्य शान्तेः